________________
२७२
न्यायमञ्जयां
[ तृतीयम्
अत एव निरीक्ष्य दुर्घटं जगतो जन्मविनाशडम्बरम् ।
न कदाचिदनीदशं जगत कथितं नीतिरहस्यवेदिभिः । सामान्यतोदृष्टानुमानेनैवेश्वरसिद्धिकथनम्
अत्र वदामः, यत्तावदिदमगादि नगादिनिर्माणनिपुणपुरुषपरिच्छेददक्षं प्रत्यक्षं 5 न भवतीति तदेवमेव । प्रत्यक्षपूर्वकमनुमानमपि तेनैव पथा प्रतिष्ठितमिति तदप्यास्ताम् ।
___सामान्यतोदृष्टन्तु लिङ्गमीश्वरसत्तायामिदं ब्रूमहे, पृथिव्यादि कार्य धर्मि, तदुत्पत्तिप्रकारप्रयोजनाद्यभिज्ञकर्तृपूर्वकमिति साध्यो धर्मः, कार्यत्वाद्, घटादिवत् । तस्मिन्ननुमाने चार्वाकादीनामनुपपत्तिनिरासः
ननु कार्यत्वमसिद्धमित्युक्तम्, क एवमाचष्टे चार्वाकः शाक्यो मीमांसको वा?
चार्वाकस्तावद् वेदरचनाया रचनान्तरविलक्षणाया अपि कार्यत्वमभ्युपगच्छति यः, स कथं पृथव्यादिरचनायाः कार्यत्वमपह नुवीत ? ____ मीमांसकोऽपि न कार्यत्वमपह्नोतुमर्हति, यत एवमाह येषामप्यनवगतोत्पत्तीनां
रूपमुपलभ्यते तन्तुव्यतिषक्तजनितोऽयं पटस्तद्व्यतिषङ्गविमोचनात् तन्तुविना15 शाद्वा नक्ष्यतीति कल्प्यते इति । एवमवयवसंयोगनिर्वय॑मानवपुषः क्षितिधरादेरपि नाशसम्प्रत्ययः सम्भवत्येव । दृश्यते च क्वचिद्विनाशप्रतीतिः प्रावृषेण्यजलधरधारा
तदुत्पत्तिप्रकारेति। तस्योत्पत्तौ यः प्रकार इतिकर्तव्यता, उत्पन्नस्य च प्रयोजनम्।
येषामप्यनवगतोत्पत्तीनामिति । शब्दाधिकरणे भाष्यं शब्दस्य कारणाभावा20 खेतोः कारणविनाशात् कारणसंयोगविनाशाद्वा विनाशाशङ्काप्रतिषेधपरम् 'येषामन
वगतोत्पत्तीनां द्रव्याणां भाव एव लक्ष्यते, तेषामपि केषाञ्चिदनित्यता गम्यते. येषां विनाशकारणमुपलक्ष्यते, यथाभिनवं पटं दृष्ट्वा; न चैनं क्रियमाणमुपलब्धवान्, अथवानित्यत्वमस्याध्यवस्यति रूपमेव हि दृष्ट्वा । तन्तुव्यतिषङ्गजनितोऽयं तद्वयतिषङ्गविमोच
नात् तन्तुविनाशाद्वा विनङ्ख्यति, इत्येवमवगच्छन्ति । न चैवं शब्दस्य किञ्चित् कारण25 मुपलभामहे यद्विनाशाद् विनथ्यतीत्यवगम्यते” इति भाष्यम्। ननु कृतकत्वादनित्य
त्वानुमानं न पुनरनित्यत्वात् कृतकत्वानुमानम्, एवंसत्यनित्यत्वात् प्रयत्नानन्तरीयकत्वा