________________
आह्निकम् ]
प्रमाणप्रकरणम्
२७१
अथ ब्राह्मण मानेन संवत्सरशतनिष्ठामधितिष्ठति परमेष्ठिनि महेश्वरस्य संजिहीर्षा जायते, तया तिरोहितस्वफलारम्भशक्तीनि कर्माणि संभवन्तीति संपद्यते सकलभुवनप्रलयः। पुनश्च तावत्येव रात्रिप्राये काले व्यतीते सिसृक्षा भवति भगवतः, तयाभिव्यक्तशक्तीनि कर्माणि कार्यमारप्स्यन्ते इति, तदप्ययुक्तम्
उद्भवाभिभवौ तेषां स्यातां चेदीश्वरेच्छया।
तर्हि संवास्तु जगतां सर्गसंहारकारणम् ॥ किं कर्मभिः, एवमस्त्विति चेद, न। ईश्वरेच्छावशित्वपक्षे हि त्रयो दुरतिक्रमाः दोषाः, तस्यैव तावन्महात्मनो निष्करुणत्वमकारणमेव दारुणसर्गकारिणः, तथा वैदिकोनां विधिनिषेधचोदनानामानर्थक्यम् । ईश्वरेच्छात एव शुभाशुभफलोपभोगसम्भवात् । अनिर्मोक्षप्रसङ्गश्च । मुक्ता अपि प्रलयसमये इव जीवाः पुनरीश्वरे- 10 च्छया संसरेयुः । तस्मान्नेश्वराधीनो जगतां सर्गः संहारो वा।
इत्यनन्तरगीतेन नयेनेश्वरसाधने । नानुमानस्य सामर्थ्यमुपमाने तु का कथा ॥ आगमस्यापि नित्यस्य तत्परत्वमसाम्प्रतम् । तत्प्रणीते तु विस्रम्भः कथं भवतु मादृशाम् ॥ किञ्चागमस्य प्रामाण्यं तत्प्रणीतत्वहेतुकम् । तत्प्रामाण्याच्च तत्सिद्धिरित्यन्योन्याश्रयं भवेत् ॥ अन्यथाऽनुपपत्त्या तु न शक्यो लब्धुमीश्वरः ।
न हि तद् दृश्यते कार्य तं विना यन्न सिद्धयति ॥ तस्मात् सर्वसद्विषयप्रामाणानवगम्यमानस्वरूपत्वावभाव एवेश्वरस्येति 20 सिद्धम्।
न च प्रसिद्धिमात्रेण युक्तमेतस्य कल्पनम् ।
निर्मूलत्वात्तथा चोक्तं प्रसिद्धिर्वटयक्षवत् ॥ ब्राह्मण मानेनेति।
दैविकानां युगानान्तु सहस्रं परिसङ्ख्यया ।
ब्राह्ममेकमहर्तेयं तावती रात्रिरेव च ॥ इत्यादिना। तत्परत्वमसाम्प्रतम् । तत्परत्वे हि नित्यत्वव्याघातः, तेनैव कर्तुः प्रतिपादनात् ।
25