________________
२७०
5
10
15
20
25
न्यायमञ्जय
[ तृतीयम्
परमकारुणिकानामपि दुःसहादुःखदहन दन्दह्यमानमनसो जन्तूनवलोकयतामुदेति दया न पुनरपवर्गदशावदेषा दुःखशून्यानिति ।
करुणामृतसंसिक्तहृदयो वा जगत् सृजन् । कथं सृजति दुर्वारदुःखप्राग्भारदारुणम् ॥
अथ केवलं सुखोपभोगप्रायं जगत् स्रष्टुमेव न जानाति, सृष्टमपि वा न चिरमवतिष्ठते इत्युच्यते, तदप्यचारु । निरतिशयस्वातन्त्र्यसीमनि वर्त्तमानस्य स्वेच्छानुवत्तिसकलपदार्थ सार्थ स्थितेः परमेश्वरस्य किमसाध्यं नाम भवेत् ? नानात्मगतशुभाशुभकर्मकलापापेक्षः स्रष्टा प्रजापतिरिति चेत्, कर्माण्येव हि तर्हि सृजन्तु जगन्ति कि प्रजापतिना अथाचेतनानां चेतनानधिष्ठितानां त्रष्टृत्वमघटमानमिति तेषामधिष्ठाता चेतनः कल्प्यते इति चेन्न । तदाश्रयाणामात्मनामेव चेतनत्वात् त एवाधिष्ठातारो भविष्यन्ति किमधिष्ठात्रन्तरेणेश्वरेण ? तस्यापि तादृशा परकीयकर्मान्तरापेक्षा सङ्कोचितस्वातन्त्र्येण किमंश्वर्येण कार्यम् ? राज्यमिव मन्त्रिपरवशमैश्वर्यं क्वोपयुज्यते ? तादृग् यत्रापरनिरपेक्षं रुच्यैव न रच्यतेऽभिमतम् अन्येनाप्युक्तम्
किमीश्वरतयेश्वरो यदि न वर्त्तते स्वेच्छया ।
न हि प्रभवतां क्रियाविधिषु हेतुरन्विष्यते ॥ इति ।
अथ क्रीडार्था जगत्सर्गे भगवतः प्रवृत्तिः ईदृशा च शुभाशुभरूपेण जगता सृष्टेन क्रीडति परमेश्वर इत्युच्यते, तहि क्रीडासाध्य सुखरहितत्वेन सृष्टेः पूर्वमवाप्तसकलानन्दत्वं नाम तस्य रूपमवहीयते ।
न च क्रीडापि नि:शेषजनतातङ्ककारिणी । आयासबहुला चेयं कर्तुं युक्ता महात्मनः ॥ तस्मान्न जगतां नाथ ईश्वरः स्रष्टा संहर्तापि भवति । नस्य प्रियमाणेषु पूर्यन्ते जन्तुकर्मसु । सकृत् समस्तत्रैलोक्यनिर्मूलनमनोरथाः ॥ कर्मोपरमपक्षे तु पुनः सृष्टिर्न युज्यते । न कर्मनिरपेक्षो हि सर्गवैचित्र्यसंभवः ॥