SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ आह्निकम् ] प्रमाणप्रकरणम् २६६ 10 कुलालतुल्यः कत्तेंति स्याद् विशेषविरुद्धता। व्यापारवानसर्वज्ञः शरीरी क्लेशसंकुलः ॥ घटस्य यादृशः कर्ता तादृगेव भवेद् भुवः । विशेषसाध्यतायां वा साध्यहीनं निदर्शनम् । कर्तृसामान्यसिद्धौ तु विशेषावगतिः कुतः ॥ अपि च, सशरीरो वा जगन्ति रचयेदीश्वरः, शरीररहितो वा ? तदीयं शरीरं कार्य नित्यं वा भवेत् सर्वथानुपपत्तिः अशरीरस्य कर्तृत्वं दृश्यते नहि कस्यचित् । देहोऽप्युत्पत्तिमानस्य देहत्वाच्चैत्रदेहवत् ॥ - कार्यमपीश्वरशरीरं तत्कर्तृकं वा स्यादीश्वरान्तरकर्तृकं वा ? तत्र स्वयं निजशरीरस्य निर्माणमिति साहसम । कत्रन्तरकृते तस्मिन्नीश्वरानन्त्यमापतेत् ॥ भवतु, को दोष इति चेत्, प्रमाणाभाव एव दोषः। एकस्यापि तावदीश्वरस्य साधने पर्याकुलतां गताः किं पुनरनन्तानाम् । किञ्च व्यापारेण वा कुलालादिरिव कार्याणि सृजेदीश्वरइच्छामात्रेण वा । द्वयमपि दुर्घटम्, व्यापारेण जगत्सृष्टिः कुतो युगशतैरपि । तदिच्छां चानुवर्तन्ते न जडाः परमाणवः ॥ . अपि च किं किमपि प्रयोजनमनुसंधाय जगत्सर्गे प्रवर्तते प्रजापतिः, एवमेव वा ? निष्प्रयोजनायां प्रवृत्तावप्रेक्षापूर्वकारित्वादुन्मत्ततुल्योऽसौ भवेत्, पूर्वोऽपि नास्ति पक्षः। अवाप्तसर्वानन्दस्य रागादिरहितात्मनः। जगदारभमाणस्य न विद्मः किं प्रयोजनम् ॥ अनुकम्पया प्रवर्तत इति चेद्, मैवम् सर्गात् पूर्व हि निःशेषक्लेशसंस्पर्शवजिताः । नास्य मुक्ता इवात्मानो भवन्ति करुणास्पदम् ॥ 20
SR No.002345
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1982
Total Pages544
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy