________________
२६८
न्यायमञ्जयां
[ तृतीयम्
तथा हीश्वरसद्भावो न प्रत्यक्षप्रमाणकः । न ह्यसावक्षविज्ञाने रूपादिरिव भासते॥ न च मानसविज्ञानसंवेद्योऽयं सुखादिवत् । योगिनामप्रसिद्धत्वान्न तत्प्रत्यक्षगोचरः॥ प्रत्यक्षप्रतिषेधेन तत्पूर्वकमपाकृतम् । अनुमानमविज्ञाते तस्मिन् व्याप्त्यनुपग्रहात् ॥ न च सामान्यतो दृष्टं लिङ्गमस्यास्ति किञ्चन। क्षित्यादीनान्तु कार्यत्वमसिद्धं सुधियः प्रति ॥ शैलादिसन्निवेशोऽपि नैष कर्बनुमापकः । कत्रपूर्वककुम्भादिसन्निवेशविलक्षणः ॥ दृष्टः कञविनाभावी सन्निवेशो हि यादृशः ॥ तादृङ् नगादौ नास्तीति कार्यत्ववदसिद्धता । सिद्धत्वेऽपि न सिद्धत्वमनैकान्त्यात् तृणादिभिः ॥ अकृष्टजातः कर्तारमन्तरेणाप्तजन्मभिः । तेषामुत्पत्तिसमये प्रत्यक्षत्वं न लक्ष्यते ॥ कर्तुर्दश्यत्वमप्येवमभावोऽनुपलब्धितः। न च क्षितिजलप्रायदृष्टहेत्वतिरेकिणः ॥ कस्यापि कल्पनं तेषु युज्यतेऽतिप्रसङ्गतः। तेन कर्तुरभावेऽपि सन्निवेशादिदर्शनात् ॥ अनैकान्तिकता हेतोविप्रत्वे पुरुषत्ववत् । किञ्च व्याप्त्यनुसारेण कल्प्यमानः प्रसिद्धयति ॥
कर्तृदृश्यत्वमिति अशरीरस्य कर्तृत्वानुपपत्तेः सशरीरत्वे चेतरकर्तृवद् दृश्यत्वम्, दृश्यस्य चानुपलब्धिरभावं साधयत्येव ।
युज्यतेऽतिप्रसङ्गत इति । अकिञ्चित्करस्य सत्त्वमात्रेण कारणत्वकल्पनायां चैत्रस्य व्रणरोपणे स्थाणोरपि कारणत्वं प्रसज्यते । तदुक्तम्
शस्त्रौषधादिसम्बन्धाच्चैत्रस्य व्रणरोपणे । असम्बद्धस्य किं स्थाणोः कारणत्वं न कल्प्यते ।। इति ।।