________________
आह्निकम् ]
तत्र स्वप्नज्ञाने हेतुर्निद्रादिदोषोऽस्तीति दुष्टकारणज्ञानादप्रामाण्यमिति चेत्, लोलाक्षी लक्षवाक्ये किं वक्ष्यसि ? प्रभवस्तस्य न ज्ञायते इति चेत् नतरामसौ वेदेऽपि त्वन्मते ज्ञायते इति को विशेषः ? महाजनादिपरिग्रहोऽस्य नास्तीति चेद्, अन्वेषणीयं तर्हि प्रामाण्यकारणम्, न बुद्ध्युत्पादकत्वादेवौत्सगिकं प्रामाण्यमिति युक्तम् ।
प्रमाण प्रकरणम्
साक्षाद्द्रष्टृनरोक्तत्वं शब्दे यावन्न निश्चितम् । बाधानुत्पत्तिमात्रेण न तावत् तत्प्रमाणता ॥
यदपि वेदे कारणदोषनिराकरणाय कथ्यते ' यद्वा वक्तुरभावेन न स्युर्दोषा निराश्रया' इति तदपि न साम्प्रतम्, असति वक्तरि प्रामाण्यहेतूनां गुणानामप्यभावेन तत्प्रामाण्यस्याप्यभावात् ।
वेदानामीश्वरोक्तत्वादाप्तोक्तत्वं ततश्च प्रामाण्यम्
न च वेदे वक्तुरभावः सुवचः, तथा ह्येतदेव तावद् विचारयामः, किं वेदे वक्ता विद्यते न वेति ।
ननु च वेदे प्रमाणान्तरसंस्पर्शरहित विचित्रकर्मफलगतसाध्यसाधनभावोपशनि कथं तदर्थसाक्षाद्दर्शी पुरुष उपदेष्टा भवेत् ? उच्यते
वेदस्य पुरुषः कर्ता न हि यादृशतादृशः । feng त्रैलोक्य निर्माणनिपुणः परमेश्वरः ॥ स देवः परमो ज्ञाता नित्यानन्दः कृपान्वितः । क्लेशकर्म विपाकादिपरामर्शविवर्जितः
॥
ईश्वर सद्भावादौ शङ्का
अत्राह कि ब्रूषे त्रैलोक्यनिर्माणनिपुण इति ? अहो तव सरलमतित्वम् । न हि तथाविधपुरुषसद्भावे कश्वन प्रमाणमस्ति ।
अन्वेषणीयं तर्हि प्रामाण्यकारणम् महाजनपरिग्रहादि ।
क्लेशकर्म विपाकादि इति । क्लेशा रागादयः । कर्माणि शुभाशुभानि । विपाको जात्यायुर्भोगाः । आदिग्रहणाद् आशयः संस्कारो धर्माधर्माख्यः । तदुक्तम् ' क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः' इति ।
२६७
5
10
15
20
25