________________
२६६
न्यायमञ्जय
[ तृतीयम्
मादीनि न प्रेक्षापूर्वकारिणो यज्वानः प्रयुञ्जीरन् इत्यवश्यं निश्चेतव्यम् तत्र प्रामाण्यम् । तच्च परत एवेति ब्रूमः । शब्दस्य बृद्धव्यवहाराधिगतसम्बन्धोपकृतस्य सतः प्रतीतिजनकत्वं नाम रूपमवधूतम् । तत्तु नैसर्गिकशक्त्यात्मकसम्बन्धमहिम्ना वा पुरुषघटितसमयसम्बन्धबलेन वेति विचारयिष्यामः । प्रकाशकत्वमात्रन्तु दीपा - 5 देरिव तस्य रूपम्, यथा हि दीपः प्रकाशमानः शुचिमशुचि वा यथासन्निहितमर्थमवद्योतयति तथा शब्दोऽपि पुरुषेण प्रयोज्यमानः श्रवणपथमुपगतः सत्योऽनृतो वा समन्वितेऽसमन्विते वा सफले निष्फले वा सिद्धे कार्ये वाऽर्थे प्रमितिमुपजनयतीति तावदेवास्य रूपम् । अयन्तु दीपाच्छब्दस्य विशेषो यदेष सम्बन्धव्युत्पत्तिमपेक्षमाणः प्रमामुत्पादयतीति, दीपस्तु तन्निरपेक्ष इति । तस्याः शब्दजनितायाः प्रमितेर्यथार्थे10 तरत्वं पुरुषाधीनं सम्यग् दर्शनि शुचौ पुरुषे सति सत्यार्था सा भवति प्रतीतिरितरथा तु तद्विपरीतेति । तत्र यथा नैसर्गिकमर्थसंस्पशित्वं शब्दस्य न रूपमिति समर्थितम्, एवमस्य स्वाभाविकं सत्यार्थत्वमपि न रूपम् । एवमभ्युपगम्यमाने विप्रलम्भकवचसि विसंवाददर्शनं न भवेत् । तस्मात् पुरुषगुणदोषाधीनावेव शाब्दे प्रत्यये संवाद - विसंवादौ । न चेन्द्रियादाविव तत्र दुर्भणा गुणाः । रागादयो दोषाः करुणादयो गुणाः 15 पुरुषाणामतिप्रसिद्धा एव । पुरुषगुणा एव शब्दस्य गुणाः न स्वशरीरसंस्थाः चक्षुरादेरिवेति । तत्र यदि पुरुषगुणानां प्रामाण्यकारणता नेष्यते दोषाणामपि विप्लवहेतुता माभूत् ।
यत्तु दोषप्रशमनचरितार्था एव पुरुषगुणाः प्रामाण्यहेतवस्तु न भवन्तीत्यत्र शपथशरणा एव श्रोत्रियाः । न च बाधानुत्पत्तिमात्रेण वैदिक्याः प्रतीतेः प्रामाण्यं 20 भवितुमर्हति ' पक्ष्मलाक्षीलक्षमभिरमयेद् विद्याधरपदकाम' इत्यादावपि प्रामाण्यप्रसङ्गात् । उक्तञ्च केनचित्
यथा हि स्वप्नदृष्टोऽर्थः कश्चिद् द्वीपान्तरादिषु । असंवादविसंवादः श्रद्धातुं नैव शक्यते ॥ तथा चोदनयाप्यर्थं बोध्यमानमतीन्द्रियम् । असंवादविसंवादं न श्रद्दधति केचनेति ॥
नैसर्गिक शक्त्यात्मकेति । वाच्यवाचकशक्त्योः परस्परनियतत्वं शक्त्यात्मकः
25
सम्बन्धः ।