________________
आह्निकम् ]
प्रमाण प्रकरणम्
अपि च यः शुक्तिकायां रजतव्यवहारं न करोति स रजताभावमेव बुद्धवा, न रजतस्य सतस्तस्यालौकिकताम् । यदि चेदमलौकिकं रजतं तत्किमर्थमिह तदर्थक्रियार्थं प्रवर्त्तते । अलौकिकं लौकिकत्वेन गृहीत्वेति चेत्, सैवेयं तपस्विनी विपरीतख्यातिरायाता । तस्माद् विपरीतख्यातिद्वेषेण कृतमीदृशा अत्रापि लोकसिद्धैव प्रतीतिरभ्युपगम्यताम् ।
न वा मीमांसका एते स्वभार्यामपि वेश्मतः । निःसारयितुमिच्छन्ति स्वतः प्रामाण्यतृष्णया ॥ न चैवमपि तत्सिद्धिर्बु द्विद्वैविध्यदर्शनात् । संशये सति संवादसापेक्षत्वं तथैव तत् ॥ क्लेशेन तदमुनापि स्वार्थस्तेषां प्रसिद्धयति न कश्चित् । यद्भवति चैव गत्या राजपथेनैव तद्भवतु ॥ नात्मख्यातिर्बाह्यतयाऽर्थप्रतिभासा
नासत्ख्यातिर्न सतां धीविषयत्वम् । उक्तोऽख्यातौ दूषणमार्गो विपरीतख्यातिस्तस्मादाश्रयणीया मतिमद्भिः ॥
विपरीतख्याति सिद्धौ शब्दस्य परतः प्रामाण्यम्
स्थिते च तस्मिन् विपरीतवेदने तदीयसाधर्म्यकृतोऽस्ति संशयः ।
तदा च संवादमुखप्रतीक्षणाद्भजन्ति वेदाः परतः प्रमाणताम् ॥ प्रत्यक्षादिप्रमाणानां तद्यथास्तु तथास्तु वा । शब्दस्य हि प्रमाणत्वं परतो मुक्तसंशयम् ॥
दृष्टे हि विषये प्रामाण्यनिश्चयमन्तरेणैव लघुपरिश्रमेषु कर्मसु प्रवृ तदुपयोगिप्रत्यक्षादिप्रमाणप्रामाण्यनिश्चयेऽदुरुपपादे कोऽभिनिवेशः ? शब्दे पुनरदृष्टपुरुषार्थपथोपदेशिनि प्रामाण्यमनिश्चित्य महाप्रयत्ननिर्वनि ज्योतिष्टो
नवा मीमांसका इति । विपरीतख्यातिरत्याज्यत्वाद् भार्यास्थानीया ।
३४
२६५
5
10
15
20
25