________________
२६४ न्यायमञ्जयां
[तृतीयम् लौकिकमुच्यते ततोऽन्यदलौकिकमिति । यच्च शुक्तिकाशकलमिति भवन्तो वदन्ति तदलौकिकं रजतम्, रजतज्ञानावभास्यत्वाद् रजतं तद्वयवहाराप्रवृत्तेरलौकिकमिति ।
तदेतदपरामृष्टसंवेदनेतिवृत्तस्य अभिनवपदार्थसर्गप्रजापतेरभिधानम्, बाधकप्रत्ययेन तत्र रजताभावस्य ख्यापनात् । नेदं रजतमिति हि रजतं प्रतिषेधत्येष 5 प्रत्ययो न विद्यमानरजतस्यालौकिकत्वमवद्योतयते इति ।
अथ नेदं लौकिकमिति व्याख्यायते, हन्त वाक्यशेषः क्रियतां संयजत्ररङ्गानीतिवत् । सोऽयं श्रोत्रियः स्वशास्त्रवर्त्तनीमिहापि न तां त्यजति, न तु तस्या अयमवसरः। अगृह्यमाणे तु रजताख्येऽन्यर्मिणि कथं तद्धर्मत्वेन लौकिकत्वं गृह्यते,
रजताभावग्रहणे त्वेष न दोषः भावतदभावयोः धर्ममिभावाभावात् । स्मर्यमाण10 प्रतियोग्यवच्छिन्नो हि अभावो गृह्यते एव। तस्मादत्र नास्त्येव रजतं न पुनरलौकिकं
तदस्ति, न च रजतज्ञानावभास्यत्वमा रजतलक्षणमपि त्वबाधितरजतज्ञानगम्यत्वम्।
अपि च लौकिकालौकिकप्रविभागः प्रतिभासनिनन्घनो वा स्याद् व्यवहारसदसद्भावनिबन्धनो वा। न तावत् प्रतिभासनिबन्धनः, यथाप्रतीतिभावात् । 15 क्वचिद्धि रजतं क्वचिच्च तदभावः प्रतीयते न तु लौकिकत्वमलौकिकत्वं वा।
अथ व्यवहारप्रवृत्त्यप्रवृत्तिभ्यां लौकिकालौकिकत्वे व्यवस्थाप्येते? तद्वक्तव्यं कोऽयं व्यवहारो नामेति ? ज्ञानाभिधानस्वभावो हि व्यवहारः स तद्विषयो नास्तीत्युक्तम् । तदर्थक्रियानिवर्तनं व्यवहार इति चेत्, तहि स्वप्ने परिरभ्यमाणाया
योषितः कूटकार्षापणस्य च लौकिकत्वं प्राप्नोति । उत्पद्य नष्ट घटे अर्थक्रियाया 20 निवृत्तेरलौकिकत्वं स्यात् ।
संयजत्रैरङ्गानि इति । “सं ते वायुर्वातेन गच्छता सं यजत्रैरङ्गानि समाशिषा यज्ञपतिः'। वायुस्ते तव सम्बन्धी वातेन सङ्गच्छता सम्बन्ध्यताम्, अङ्गानि यजत्रैर्देवैः सङ्गच्छताम्, यज्ञपतिर्यजमान आशिषा सङ्गच्छतामिति पशुविशसनमन्त्रस्यार्थः । अत्र
प्रकृतस्य 'गच्छताम्' इत्यस्यैकवचनत्वात् 'यजत्रैरङ्गानि' इत्यत्र ‘गच्छन्ताम्' इति 25 लौकिको वावयशेषः कार्यः संशब्दस्तु श्रूयमाणः स्थित एव ।