________________
आह्निकम् ]
प्रमाणप्रकरणम्
२६३
ननु स्वकालनियतत्वाद् ज्ञानानां कथमुत्तरस्य ज्ञानस्य पूर्वज्ञानोत्पादकालावच्छिन्नतद्विषयाभावग्रहणसामर्थ्यम् ? किं कुर्मः, तथा प्रत्ययोत्पादात्। न भग्नघटवदिदानी तन्नास्तिता गृह्यते अपि तु तदैव तदसदिति प्रतीतिः। यथा च न वर्तमानकनिष्ठेव विषयप्रतीतयस्तथा क्षणभङ्गभङ्ग वक्ष्यामः।
अथ वा फलापहारो भवतु बाधः, प्रमाणफलत्वञ्च हानादिबुद्धीनां प्रत्यक्ष- 5. लक्षणे वणितमिति तदपहरणात् प्रमाणं बाधितं भवत्येव । किं कुर्वता बाधकेन प्रमाणफलमपहतमिति क्षेत्
गायता नृत्यता बापि जपता जुह्वतापि वा। तच्चेत कार्य कृतं तेन किमवान्तरकर्मणा ॥ तदभ्युपगमे वापि तत् किं विदधता कृतम् ।
तच्च किं कुर्वतेत्येवमवधिः को भविष्यति ॥ तदलममुनावान्तरप्रश्नेन सर्वत्र बाधकप्रत्ययोपजनने सति हानादिरूपं पूर्वप्रमाणफलं निवर्तते इति तेन तब्बाधितमुच्यते । समानासमानविषयविकल्पोऽपि नपेशलः । एकस्मिन् विषये विरुद्धाकारग्राहिणोनियोर्बाध्यबाधकभावाभ्युपगमात्। चित्रादिप्रत्यये कथं न बाध इति चेत्, पूर्वज्ञानोपमर्दैनोत्तरविज्ञानानुत्पादात् । अत: एवैकत्रापि धर्मिणि बहूनां धर्माणामितरेतरानुपमर्दैन वेद्यमानानामस्त्येव समावेशः, पूर्वोपमर्देनेतरविज्ञानाजननाच्चैतदपि प्रत्युक्तं भवति ।
___ यदुक्तम्, पूर्वस्मिन् प्रत्यये प्राप्तप्रतिष्ठे सत्यागन्तुज्ञानमुत्तरं बाध्यतामिति । यतःपूर्वोपम व तदुत्तरं ज्ञानमुदेति विषयसहायत्वात् प्रमाणान्तरानुगृह्यमाणत्वाच्च उत्तरमेव ज्ञानं बाधकमिति युक्तम् । तस्मादस्ति ज्ञानानां बाध्यबाधकभावः । स 20 चायं बाधव्यवहारो विपरीतख्यातिपक्षे एव सामर्थ्यमस्खलितं दधातीति स एव ज्यायान् । मीमांसकैकदेशिमतनिरासः
अज्ञः कोऽपि नाम मीमांसकस्त्वाह, येयं शुक्तिकायां रजतप्रतीतिविपरीतख्यातिरिति तद्वादिनामभिमता सा तथा न भवतीति, सत्यरजतप्रतीतिवदत्राप्यव- 25 भास्यरजतसद्भावात् । लौकिकालौकिकत्वे तु विशेषः, रजतज्ञानावभास्यं हि रजतमुच्यते तच्च किञ्चिद् व्यवहारप्रवर्तकं किञ्चिन्नेति । तत्र व्यवहारप्रवर्तकं