________________
२६२ न्यायमञ्जयां
[ तृतीयम् आलम्बनस्याजनकत्वं यच्चक्षुरादावपि प्रसज्येत, किन्त्विदमित्यगुल्या निर्दिश्यमानं कर्मतया यज्ज्ञानस्य जनकं तदालम्बनमित्युच्यमाने न कश्चिद्दोषः।
ननु केशोण्डकज्ञाने किमालम्बनकारणम् ? किश्चित्तु तिमिरं रोमराजिरिव नयनधाम्नो मध्ये एवास्ते, तेन द्विधा कृता नयनवृत्तिद्धित्वेन चन्द्रमसं गृह्णाति, 5 किञ्चित्त तिमिरं तितउ विवरवदन्तरान्तरा तिष्ठति चक्षुषः, तेन विरलप्रसृता
नयनरश्मयः सूक्ष्माः सूर्यांशुभिरभिहन्यमानाः केशकूर्चकाकारा भवन्तीति तदेवालम्बनम्, अनुदितेऽस्तमिते वा सवितरि केशोण्डकप्रत्ययस्यानुत्पादात् ।
गन्धर्वनगरज्ञाने जलदाः पाण्डुरत्विषः ।
आलम्बनं गृहाट्टालप्राकाराकारधारिणः॥ तस्माद्विपरीतख्यातौ पक्षत्रयमपि निरखद्यम् । यः पुनरितरेत रसङ्करः ख्यातीनामुदाहारि तत्रात्मख्यात्यसत्ख्याती अपवर्गाह्निके वयमपि विज्ञानाद्वैतलपाकरिष्यन्तः पराकरिष्याम इति कि तच्चिन्तया। विपरीतख्यातौ तु तत्साङ्कय परिहृतम् ।
यत्पुनरवादि सर्ववादिभिः स्मृतिप्रमोषोऽभ्युपगत एव प्राभाकरैस्तु यशः 15 पीतमिति, तत्र वाद्यन्तराणि तावद्यथा भवन्ति तथा भवन्तु वयन्तु स्मृत्युपा
रूढरजताद्याकारप्रतिभासमभिवदन्तो बाद स्मृतिप्रमोषमभ्युपगतवन्तः, किन्तु न तावत्येव विश्राम्यति मतिः, अपि तु रजताद्यनुभवोऽपि संवेद्यते इति न स्मृतिप्रमोषमात्रे एव विरन्तव्यम् । अतो विपरीतख्यातिपक्ष एव निरवद्य इति स्थितम् ।
यस्तु बाधप्रकारः प्राग विकल्पितः, तत्र सहानवस्थानसंस्कारोच्छेदादिपक्षा 20 अनभ्युपगमेनैव निरस्ता इत्यस्थाने कण्ठशोष आयुष्मतानुभूतः। विषयापहारस्ता
वदस्तु बाधः विषयस्य च न प्रतिभातत्वमपह्नियते किन्तु प्रतिभातस्यासत्त्वं ख्याप्यते इत्यपहारार्थः । असत्त्वमपि नेदानीमुपनतस्य ख्याप्यते येन दृष्टपूर्वद्रुघणभग्नकुम्भाभावप्रतिभासवदबाधः स्यात् । न च तदानीमप्यभावग्रहणे वस्तुनो द्वयात्मकत्वमाशङ्कनीयम्, पूर्वावगताकारोपमर्दद्वारेण बाधकप्रत्ययोत्पादात्, यन्मया तदा रजतमिति
गृहीतं तद्रजतं न भवति अन्यदेव तद्वस्त्विति । 25 तिमिरं तितउविवरवदिति ; तितउ परिपवनम् ।