________________
आह्निकम् ]
प्रमाण प्रकरणम्
नन्वत्र चोदितम् असत्ख्यातिरेव सा भवेदिति । नैतत् साधु, देशान्तरादौ रजविद्यमानत्वात् । असत्ख्यातिपक्षे हि
anandोऽर्थस्य किं देशान्तरचिन्तया । किं कुर्मस्तादृशस्येव वस्तुनः ख्यातिदर्शनात् ॥
यस्तु देशान्तरेऽप्यर्थो नास्ति कालान्तरेऽपि वा । न तस्य ग्रहणं दृष्टं गगनेन्दीवरादिवत् ॥
२६१
ननूक्तं कृत्यासीतावत् किमिदं वेशभाषापरिवर्तनम् कथञ्च रजतज्ञाने शुक्तिभासितुमर्हति ? श्रुतमिदं नाटकम्, न तु वयमत्रोपहासपात्रम् | शुक्तिकेति वस्तुस्थितिरेषा कथ्यते । पुरोऽवस्थितं धनिमात्रं भास्वररूपादिसादृश्योपजनितरजतविशेषस्मरणमत्र प्रतिभातीति ब्रूमः यदेतत् पुरः किमपि वर्त्तते तद् रजतमित्यनुभवात् । वस्तुस्थित्या तु शुक्तिरेव सा त्रिकोणत्वादिविशेषग्रहणाभावाच्च निगूहिनिज कारेत्युच्यते रजतविशेषस्मरणाच्च परिगृहीतरजताकारेति । एतच्च विषयेन्द्रियादिदोष प्रभवेषु शुक्तिकारजतावभास भास्करकिरणजलावगम-जलदगन्धर्वनगरनिर्वर्णन-रज्जुभुजगग्रहण- रोहिणी रमणद्वयदर्शन - शङ्ख शर्करापीततिक्ततावसायकेशकूर्चकालोकनादि - विभ्रमेष्वभ्युपगम्यते । मनोदोषनिबन्धनेषु तु मिथ्याप्रत्ययेषु निरालम्बनेषु स्मृत्युल्लिखित निराकारः प्रकाशते इति ।
5
अयमेव च द्वयोरसत्वयोविशेषः यदेकस्य ग्रहणं दृष्टमितरस्य न दृष्टमिति । ननूक्तं तत्रासतोऽर्थस्य कथं ज्ञानजनकत्वमजनकस्य वा कथं प्रतिभासः ? उक्तमत्र सदृशपदार्थदर्शनोद्भूतस्मृत्युपस्थापितस्य रजतस्यात्र प्रतिभासनमिति । न चास्योपस्थानं पशोरिव रज्ज्वा संयम्य ढौकनम् अपि तु हृदये परिस्फुरतोऽ- 10 र्थस्य बहिरवभासनम् । न चैतावतेयमात्मख्यातिर सत्ख्यातिवेति वक्तव्यम्, विज्ञानाद् विच्छेदप्रतीतेः, अत्यन्तासदर्थप्रतिभासाभावाच्चेति । अत एव पिहितस्वाकारा परिगृहीतपराकारा शुक्तिकैवात्र प्रतिभातीति भवतु पक्षः ।
15
20
यस्तु तृतीयः पक्षः अन्यदालम्बनमन्यश्च प्रतिभातीति कैश्चिदाश्रितः, तत्रापि न सन्निहितस्यालम्बनत्वमुच्यते येन भूप्रदेशस्यापि तथात्वमाशङ्कयेत । नापि 25
मनोदोषनिबन्धनेषु मानसनिद्रादिदोषजेषु स्वप्नादिज्ञानेषु ।