________________
प्रमाणप्रकरणम्
आह्निकम् ]
२५९ निषेधः, अननुभूतन्त्वस कमपि प्रतिषिध्यमानं रजतमिव कनकमपि किमिति न प्रतिषिध्यते ?
यत्तु व्याख्यातं प्रागनवगतस्मरणानुभवविवेकप्रतिपादकं बाधकज्ञानमिति, तयाख्यानमात्रगेव, लथाननुभवात् । न ह्येवं बाधक उद्घाटयते यदविविक्तं तद्विविक्तमित्ति, अतो यत्किञ्चिदेतत् । तस्मान्न रजतस्मरणं रजते वा कदाचिदनु- 5 भवोऽभूदिति स्मरणमभिधीयमानं नात्यन्तमलौकिकम् । स्वप्ने तु स्वशिरश्छेदादेरत्यन्ताननुभूतस्य स्मृतिरिति कथ्यमानमेव त्रयाकरम् । जन्मान्तरे निजलस्तकलवनमनुभूतमनेनेति चेद, इदमपि स्वभाषितमसारम् । यज्जन्मान्तरानुभूतं स्मर्यते तत्र च कुतस्त्य एष नियमो यत् कदाचिदेव स्मर्यते न सर्वदा सर्वमिति ?
ननु भवताप्यसत्ख्याति निरस्यता स्वप्नज्ञानेषु तादृक्षु किं वक्तव्यम् ? यद 10 वक्तव्यं तत्रैव श्रोष्यसि। असन्न प्रतिभातीत्युच्यते न त्वननुभूतमिति ।
नन्वननुभूतं सत् कथं जानीषे तदिति चेद्, ज्ञानं तदनुभूतमिति, मैवम्। मया तन्नानुभूतम्, अन्येनानुभविष्यते, परानुभूतञ्च सदिति शक्यते वक्तुम् । परानुभूतेन स्मरणमघटमानमिति नावयोरत्र वस्तुनि समानयोगक्षेमत्वम् ।।
अपि च भवन्मते स्वप्नस्मृतेः स्मृतित्वेनाग्रहणे केन रूपेण ग्रहणमिति 15 चिन्त्यम्। रूपान्तरेण ग्रहणे विपरीतख्यातिः सर्वात्मना त्वग्रहणे स्वप्नसुषुप्त्योरविशेषप्रसङ्गः । अनुभवप्रत्ययश्च स्वप्ने संवेद्यते न स्मरणानुल्लेखमात्रमिति दुरभिनिवेश एव स्मृतिप्रमोषसमर्थनं नामेति । द्विचन्द्रादिप्रत्ययेषु कथमख्यातिः ?
ननूक्तं सुषिरभिन्ना नयनवृत्तिरेकत्वेन ग्रहीतुं न शक्नोति शशाङ्कमिति । भोः श्रोत्रिय ! तादृशी दृशोवृत्तिरेकत्वमिन्दोर्मा ग्रहीद द्वित्वानुभवन्तु भ्रान्तं क्व 20 प्रच्छादयानः ? ननु चक्षुर्वृत्तौ तद् द्वित्वं तद्गतत्वेन तु यत् तस्याग्रहणं स एवं भ्रमः । नैतदेवम् । नेत्रवृत्तेः सर्वत्र परोक्षत्वात् ।
किमेकचन्द्रबोधेऽपि वृत्त्येकत्वं प्रतीयते। इयं ह्यगृह्यमाणैव चक्षुर्वृत्तिः प्रकाशिका ॥
परानुभूतेन स्मरणमिति। भवतापि स्वप्ने स्वशिरश्छेदानुभवः स्मृतिरूप 25. एवाभ्युपगतस्तत्र च स्वानुभवासम्भवात् परानुभूतस्यैव स्मरणमवश्याभ्युपेयम् ।