________________
न्यायमञ्जा
[ तृतीयम् पीदं न कथञ्चन स्वार्थ पुष्णाति, यावद्धि दृश्यं गृहीतमिति न जातः प्रत्ययस्तावत् कथं दृश्यार्थिनस्तत्र प्रवृत्तिः। एवमिहापि यावद्रजतं गृहीतमिति न जातः प्रत्ययस्तावत् कुतस्तदथिनां प्रवृत्तिः । तस्मादस्ति रजतग्रहणं न तु तत्स्मरणप्रमोषमात्रम्।
ननु रजतस्मरणं विपरीतख्यातिवादिभिरप्यङ्गीकृतमित्युक्तम्, सत्यम्, रजतगतविशेषस्मरणमभ्युपगतम् । यथा हि पुरोऽवस्थिते धर्मिण्यवत्वादिसाधारणधर्मग्रहणात् स्थाणुपुरुषगतविशेषाग्रहणादुभयविशेषस्मृतेः संशयो भवति एवमिहापि तेजस्वितादिसामान्यधर्मग्रहणाद् विशेषाग्रहणाद् रजतपतविशेषस्तृलेश्व तस्मिन
मिणि रजतप्रत्ययो भवति विपर्ययात्मकः । संशये ख़ुभयविशेषस्मरणं कारणम्, 10 इह त्वन्यतरविशेषस्मरणमिति विशेषः। अत एव चागृहीतरजतस्येदं ज्ञानं नोत्पद्यते,
सदृशाग्रहणे वा निशीथादाविति, न त्वेतावता स्मरणमात्रमेवेदमिति इयति बिरम्य स्थातव्यम्, स्मरणजन्यस्य विपर्ययप्रत्ययस्यापि संवेदनात् । अत एव तत्पृष्ठभाविपरामर्शवादिनो वरं सत्यवाचः, ते हि प्रतिभासं न निहनुवते। यत्त विपर्ययावगतेः कारणं विकल्पितं तत्रोक्तमेव प्रामाणिकैः
कार्यश्चेदवगम्येत किं कारणपरीक्षया।
कार्यश्चेन्नावगम्येत किं कारणपरीक्षया ॥ कार्याकस्मिकतानुपपत्तेश्च कल्प्यतां कारणम्, तच्च क्लृप्तमेव, दोषसहितमिन्द्रियं यथा संस्कारसहकारि प्रत्यभिज्ञायामिति ।
सुवते शालयो दुष्टा न यद्यपि यवाङ्कुरम् ।
शालिकार्य त्वपूपादि जनयन्त्येव कल्मषम् ॥ तस्माद् दोषकलुषितादिन्द्रियात् पुरोऽवस्थितमिगतत्रिकोणत्वादिविशेषाव मर्शकौशलशून्यात् सामान्यधर्मसहचरितपदार्थान्तरगतविशेषस्मरणोपकृताद् भवति विपरीतप्रत्ययः । सम्यग्ज्ञानापेक्षया च तद् दुष्टमुच्यते। स्वकार्ये तु विपर्ययज्ञाने तत्कारणमेव, न दुष्टम् । तस्माद् रजतमित्यनुभव एव, न प्रमुषितस्मृतिः।
अपि च नेदं रजतमिति बाधकज्ञानं पूर्वानुभवविषयीकृतरजतनिषेधमधिगमयद् उत्पद्यते नेदं रजतमिति, यदहमद्राक्षं तद्रजतं न भवतीति । प्रसक्तस्य चायं