________________
प्रमाणप्रकरणम्
२५७
10
आह्निकम् ] यदेवेदं पुरोऽवस्थितं भास्वररूपाद्यधिकरणं धर्मिसामान्यं तदेव रजतमिति विशेषतः प्रतिपद्यते, यदिदमग्रतः स्थितं तद्रजतमिति सत्यरजतप्रतीतिवत् । अनुभूततया हि न रजतमत्र प्रकाशते किन्त्वनुभूयमानतया। अनुभूतताग्रहणं हि स्मरणमुच्यते नानुभूयमानताग्रहणम् । स्वप्रकाशा च संवित्तिरिति भवतां दर्शनम्, तत्रैषा रजतसंवित्तिः केन रूपेण प्रकाशतामिति चिन्त्यम् । यदि स्मरणात्मना कः 5 प्रमोषार्थः ? अथानुभवात्मना तदियं विपरीतख्यातिरेव, स्मृतेरनुभवत्वेन प्रतिभासात्। अथ संविन्मात्रतयैव प्रकाशते ? तदपि न युक्तम्। रजतविषयोल्लेखात्, स्मरणानुभवविशेषरहितायाश्च विषयसंवित्तेरनुपपत्तेः । न चेयमप्रतिपत्तिरेवेति वक्तुमुचितम, मदमूर्छादिदशाविसदृशस्वप्रकाशसंवेदनानुभवात्, यथा इदमित्यंशे स्वप्रकाश संवेदनं तथैव रजतमित्यत्रापि ।
अपि च द्वयोश्चांशयोः समाने संवेदने तत एक प्रत्यक्षलब्धमपरं स्मरणफलमिति कुतस्त्यो विभागः ? इदमित्यत्र च किमवभासते इति निरूप्यम् । यदि शुक्तिकाशकलं सकलस्वगतविशेषखचितमवभाति तदा तद्दर्शने सति रजतस्मरणस्य कोऽवसरः ? भवदपि वा सादृश्यकृतं स्मरणं न तदविवेकाय कल्पते देवदत्तदर्शनानन्तरोद्गततत्सदृशपुरुषान्तरस्मरणवत् ।
अथ मिमात्रमिदमिति प्रत्यये प्रतिभाति न शुक्तिकाशकलम, तद्बाढमिष्यते। 15 तदेव चेदं सामान्यधर्मग्रहणवशविरुद्धसंस्कारोपनिबन्धनविरुद्धविशेषस्मरणकारणकमिदं रजतमिति सामान्योपक्रमे विशेषपर्यवसानं ज्ञानम्, यदिदं तद्रजतमिति सामानाधिकरण्यावमर्शात्, रजतानुभवाभिमानेनैव च रजतार्थी तत्र प्रवर्त्तते।
ननु स्मरणानुभवयोविवेकमप्रतिपद्यमानःप्रवर्तते इत्युक्तम्,श्रुतमिदं यत अत्रभवद्भिर्धर्मकीतिगृहादाहृतं दृश्यविकल्पावर्थावेकीकृत्य प्रवर्तते इति। किञ्च चौर्यम- 20
अनुभूतताग्रहणं हीति । वस्तुगतानुभूतता यदा ज्ञानेन गृह्यते परामृश्यते 'ज्ञातः स' इत्यादिना रूपेण तदा स्मरणम्; अनुभूयमानतया तु ग्रहणम् 'अयम्' इत्यादिना रूपेण ।
विरुद्धविशेषाः शुक्तिरूपापेक्षया ये विरुद्धा रजतत्वादयः। एकीकृत्य प्रवर्तते इत्यस्यापि 'तयोर्भेदमगृहीत्वा प्रवर्तते' इत्येवंरूप एवार्थो यतः। 25