________________
२५६
5
10
15
20
25
न्यायमञ्जय
[ तृतीयम्
प्रत्ययेषु कथं स्मृतिप्रमोषः ? आः कुण्डशेखर ! कथमसकृदभिहितमपि न
बुध्यसे ?
न सर्वत्र स्मृतेरेव प्रमोषोऽभ्युपगम्यते ।
किं त्वख्यातिरतश्चासौ कथञ्चित् कस्यचित् क्वचित् ॥
भवत्यनुभवस्मृत्योर्विवेकाग्रहणं क्वचित् । क्वचित्तु स्मर्यमाणस्य तथात्वेनानुपग्रहः ॥ द्विधा कृता क्वचिद् वृत्तिनेत्रस्य तिमिरादिना । न हि ग्रहीतुमैक्येन शक्नोति शिशिरत्विषम् ॥ क्वचिद्रसनसम्पृक्ते पित्ते तिक्तत्ववेदनात् । परिच्छेत्तुं न शक्नोति माधुर्यं शर्करागतम् ॥ गृह्णाति यत्तु तिक्तत्वं वस्तुतः पित्तवृत्त तत् । तथा तु न विजानाति निगिरन्नेष शर्कराम् ॥ एतेन पीतशङ्खादिभ्रान्तयोऽपि व्याख्याताः । तदेवं सति सर्वत्र सम्यगग्रहणं भ्रमः । न मिथ्याप्रत्ययः कश्चिदस्ति शङ्कानिबन्धनम् ॥ अजात मिथ्याशङ्कश्च न संवादमपेक्षते । तस्मान्न कश्चित् परतः प्रामाण्यमधिगच्छति ॥ एवं स्वतः प्रमाणत्वे सिद्धे वेदेऽपि सा गतिः । अपवादद्वयाभावो वक्तव्यश्चात्र पूर्ववत् ॥
अख्याति निषेधेन विपरीतख्यात्युपपादनम्
अत्र प्रतिविधीयते यदुक्तमिदं रजतमिति स्मरणानुभवस्वभावे विवेकेनागृहमाणे द्वे ते ज्ञाने इति तदसाम्प्रतम्, प्रत्यभिज्ञावदेकत्वेनंव संवेद्यमानत्वात् । भवेत्तथाऽपि नास्मत्पक्षक्षतिः प्रवृत्त्यादिव्यवहारवत् सोऽपि भवतु यद्यनुभूयते” इति केचित् प्राभाकराः । रजतज्ञानानन्तरं तदुपकारितास्मरणम्, ततः परामर्शः ।
एतेन पीतशङ्खादिभ्रान्तय इति । कामलोपहतं चक्षुः स्वगतं पीतत्वं गृह्णच्छंखगतं शुक्लत्वं ग्रहीतुं न शक्नोति स्वगतञ्च पीतत्वं स्वगतत्वेन न गृह्णाति ।