________________
प्रमाणप्रकरणम्
आह्निकम् ]
२५५ गृह्यते, तथा चाभ्युपगमे भ्रमाभावप्रसङ्गात् । किन्तु तेजस्वितादिविपरीतं धर्मिमात्रमवभासते। धर्मसारूप्याच्च तदानीं रजतं स्मर्यते । ते एते ग्रहणस्मरणे विविक्ते अपि विविक्ततयान गृह्यते इति विवेकाग्रहणमख्यातिः, न तु सर्वेण सर्वाप्रतिपत्तिरेव। व्यधिकरणयोश्च ग्रहणस्मरणयोर्वैयधिकरण्यं चेन्न गृहीतं किमन्यदस्तु सामानाधिकरण्यात् ? न तु यदेवेदं तदेव रजतमिति सामानाधिकरण्येन ग्रहणमस्ति, सा हि 5 विपरीतख्यातिरेव स्यात् । वैयधिकरण्यानुपग्रहादेव प्रमातुः प्रवृत्तिः, अविवेकातृ साधारण्याभिमानेन प्रवृत्तिरिति, फलत इयं वाचोयुक्तिः
सामानाधिकरण्येन केचित्तत्पृष्ठभाविनम् । परामर्शमपीच्छन्ति तन्न श्रद्दध्महे वयम् ॥ अख्यातिपक्ष एवं हि होयेतैकत्ववेदनात्।
वक्रश्च वितथा ख्यातिरक्षरः कथिता भवेत् ॥ नन्वेवमख्यातिपक्षे प्रतिष्ठाप्यमाने नेदं रजतमिति पूर्वावगतरजतप्रतिबोधरोधी बाधकप्रत्ययो दृश्यमानः कथं समर्थयिष्यते ? अप्रतीतिज्ञो देवानां प्रियः। न ह्यनेन रजतनिषेधो विधीयते किन्तु प्रागगृहीतो विवेकः प्रख्याप्यते, न इदं रजतम्, यदेवेदं तदेव रजतमित्येतन, इदमिदं रजतं रजतम् । एतदुक्तं भवति इदमन्यद्रजत- 15 मन्यदिति सोऽयं विवेकः ख्यातितो भवति।
नन्वेवमिदं रजतमित्यादौ स्मरणानुभवयोर्भवतु विवेकाग्रहणं स्वप्ने तु कथमेतद्भविष्यति ? भीरोः ! किं जातं स्वप्ने ?
विवेकेन न गृह्येते स्मरणानुभवौ क्वचित् ।
स्वप्ने तु स्मृतिरेवंका तथात्वेन न गृह्यते ॥ सदृशदर्शनाद् विना स्मृतिरेव कुतस्त्येति चेद्, न। नानाकारणकत्वात् स्मरणस्य निद्राकषायितमप्यन्तःकरणं स्मरणकारणं भवत्येव । यद्येवं द्विचन्द्रतिक्तशर्करादि
___20
सर्वेण सर्वं सर्वात्मना।
सामानाधिकरण्येन केचिदिति । “यदा वैयधिकरण्यानवभासरतदा सामानाधिकरण्यभ्रमः, तन्निबन्धनः परामर्शोऽपि 'तथा तेदं रजतजातीयम्' इति यदि 25