________________
२५४ न्यायमञ्ज
[ तृतीयम् मिति प्रतीतिः स्याद् नेदं रजतमिति । किञ्च 'यदन्त यरूपं हि बहिर्वदवभासते. इत्यभ्युपगमादियमपि विपरीतख्यातिरेव स्यात् । असत्ख्यातिरपि चेयं भवत्येव बहिर्बुद्धरसम्भवात् । बुद्धिरस्त्येवेति चेद्, बहिष्ट्वं तहि चिन्त्यं सदसत्त्वादिति । न तावत्सद्, बुद्धर्बाह्यत्वाभावात्, असत्त्वे त्वसत्ख्यातिरित्युक्तम् । 5 अख्यातिस्वरूपम्
तस्मात् ख्यातित्रयेऽप्यस्मिन्नन्योऽन्यानुप्रवेशिनि ।
युक्त्या विरुध्यमाने च श्रेयस्यख्यातिरेव सा॥ ख्यातित्रयवादिभिरपि चेयमप्रत्याख्येया नूनमख्यातिः, आत्मख्यातौ तावदात्मतया विज्ञानस्य ख्यातिर्नास्ति विच्छेदप्रतिभासादित्युक्तत्वात, असत्ख्यातावपि असत्त्वमर्थस्य नैव प्रतिभासते प्रवृत्यादिव्यवहारोच्छेदप्रसङ्गात्, विपरीतख्यातावपि रजतस्य सन्निहितस्य ज्ञानजनकत्वम्, अजनकस्य च प्रतिभासो नेष्यते एव, तत्र स्मृत्युपस्थापितं रजतमवगतिजनकमुपगतम्, अतश्च रजतस्मृतिरपरिहार्या, सा च रजतस्मृतिर्न तदा स्वेन रूपेण प्रकाशते स्मरामीति प्रत्ययाभावात् ।
तस्मात् प्रमुषितामेनां स्मृतिमिच्छन्ति तार्किकाः ।
अभ्यस्ते विषये लिङ्गप्रतिबन्धां स्मृति यथा ॥ सोऽयं स्मृतिप्रमोषस्तत्त्वाग्रहणमख्यातिरुच्यते ।
एवंसतीयमख्यातिरिष्यते सर्ववादिभिः ।
तथा प्रकटयद्भिस्तु पीतं प्राभाकरर्यशः॥ ननु रजतमिति स्मृतेः स्वरूपोल्लेखो मा भूद् इदमित्यत्र पुरोऽवस्थितमि20 प्रतिभासात् कथमख्यातिः? उच्यते, न पुरोऽवस्थितोधर्मी शुक्तिकेयमिति स्पष्टतया
यदन्त यरूपं होत्यस्योत्तरम् --'सोऽर्थो विज्ञानरूपत्वात् तत्प्रत्ययतयापि वा' इति । तदेव विज्ञानं प्रत्ययः कारण यस्यासौ तत्प्रत्ययः, तस्य भावः तत्प्रत्ययता, तया। बहिर्बुद्धरसम्भवादिति । बहिःप्रतिभासस्तावदवश्याभ्युपेयः, बहिश्च बुद्धिर्नास्तीति बलादसत्ख्यातिवादापत्तिः।
तस्मात् प्रमुषितामेनां स्मृतिमिच्छत्ति तार्किकाः। अभ्यस्ते विषयेऽविनाभाव. स्मृतिवदिति योजना।