SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ आह्निकम् ] असत्ख्यातिस्वरूपम् तन्निरासश्च 5 तत्किम सत्ख्यातिरेव साधीयसी ? तामेवाभ्युपगच्छामः ? मैवम् । सापि नोपपद्यते एव । असत्ख्यातिरिति कोऽर्थः ? किमेकान्तासत एवार्थस्य प्रथनम्, अथ देशान्तरादो विद्यमानस्येति ? उत्तरस्मिन् पक्षे विपरीतख्यातिरेवैषा, परैरपि तत्र रजतस्य सत्त्वानभ्युपगमात् । देशान्तरादौ तु तत्सत्तायास्त्वयापि प्रतिपन्नत्वाद् । एकान्तासतस्त्वर्थस्य ख्यातिरिति न पेशलम्, आकाशनलिनीपल्लवादेरप्रतिभासनात् । वासनाभ्यासादसतामपि प्रतिभासा भविष्यन्तीति चेद्, न । अर्थमन्तरेण वासनाया अप्यनुपपत्तेः | अर्थानुभवसमाहितो हि संस्कारो वासना कथ्यते, सा कथमसदर्थप्रतिभासहेतुः स्यात् ? भवत्वन्या वा भवदभिमता काचन वासना, अपि त्वसत्त्वाविशेषे किमिति रजतमितिम् उपजनयति न गगननलिनीप्रतीतिमिति कुतस्त्यो 10 नियमः ? तदलमनया । प्रमाण प्रकरणम् नात्यन्तमसतोऽर्थस्य सामर्थ्य मवकल्पते । व्यवहारधुरं वोढुमियतीमनुपप्लुताम् ॥ आत्मख्यातिस्वरूपम् तन्निरासश्च अपि च सत्त्वेन प्रतिभातीति असत्ख्यातिरपि न विपरीतख्यातिमतिवर्त्तते । 15 तस्माद्वरमात्मख्यातिरस्तु । विज्ञानमेव खल्वेतद् गृह्णात्यात्मानमात्मना । बहिनि रूप्यमाणस्य ग्राह्यस्यानुपपत्तितः ॥ बुद्धिः प्रकाशमाना च तेन तेनात्मना बहिः । तद्वहत्यर्थ शून्यापि लोकयात्रा मिहेदृशीम् ॥ उच्यते, नात्मख्यातिरपि युक्तिमती, विज्ञानात्मनो हि प्रतिभासेऽहं रजत २५.३. भवत्वित्यादि । अनाद्यविद्यायाता असत्यरूपप्रदर्शनशक्तिविज्ञानस्य वासना, यत्सम्बन्धादात्मानं प्रदर्शयद् विज्ञानमसन्तमपि बाह्याकारं दर्शयतीति बौद्धाः । 20 25
SR No.002345
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1982
Total Pages544
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy