SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ आह्निकम् ] प्रमाण प्रकरणम् करणे एव कुण्ठितशक्ति जानमिति तदेव मा जीजनत्, विपरीतकार्यकरणस्य किं वर्त्तते, न हि दुष्टानि शालिबीजानि यवाङ्कुरकरणकौशलमवलम्बेरन् । तस्मात् कारणाभावादपि न विपरीतप्रत्ययास्ते । सम्यक्प्रत्यय एव शुक्तिकायां रजतप्रतिभासः ? अयि मूढ ! नायमेकः प्रत्यय इदं रजतमिति, किन्तु द्वे एते ग्रहणस्मरणे, इदमिति पुरोऽवस्थित भास्वरा- 5 कारर्धामप्रतिभासः, रजतमिति तु भास्वररूपदर्शनप्रबोध्य मानसंस्कारकारणकं तत्साहचर्यादवगतरजतस्मरणम् । अतश्चेदं स्मरणं यतः प्रागनवगतरजतस्य न जायते, विदितरजतस्यापि रजन्यामन्यदा वा सादृश्यदर्शनाद् विना न भवतीति । स्मरणमपि भवदिदमात्मानं तथा न प्रकटयतीति प्रमुषितमुच्यते । स्वरूपेण चाप्रतिभासमनायां स्मृतावनुभवस्मरणयोविवेको न गृहीतो भवतीत्यग्रहणमख्याति - 10 रुच्यते । तथा हि श्रान्तबोधेषु प्रस्फुरद् वस्तुसम्भवात् । चतुष्प्रकारा विमतिरुपपद्येत वादिनाम् ॥ विपरीतख्यातिः असत्ख्यातिः, आत्मख्यातिरख्यातिरिति तत्र विपरीतख्यातिस्तावत् कारणाभावादेव निरस्ता । तत्रैव शङ्कान्तरम् अपि च विपरीतख्यातौ त्रयी गतिः, रजतं वाऽन्यदेशकालमत्रालम्बनम्, शुक्तिका वा निगूहितनिजाकारा सती परिगृहीतरजताकारा च । अथवा अन्यदालम्बनमन्यश्च प्रतिभाति, आलम्बनं शुक्तिका रजतश्व प्रतिभातीति । तत्र यदि रजतमालम्बनं तदियमसत्ख्यातिरेव न विपरीतख्यातिः, असतस्तत्र रजतस्य प्रतिभासात् । अथान्यदेशकालं तदस्त्येवेत्यभिधीयते । इहासन्निहितस्यास्य तेन सत्वेन को गुणः ॥ २५१ अपि च देशकालावपि किं सन्तौ प्रतिभासेते उतासन्ताविति । यदि सन्तौ तर्हि तद्देशकालमेवेदं रजतमवभातमिति न भ्रान्तिरेषा स्यात् । असन्तौ तुभावपि रजतवन्नालम्बनं भवितुमर्हतः । 15 20 25
SR No.002345
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1982
Total Pages544
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy