________________
२५०
न्यायमञ्जऱ्यां
| तृतीयम्
अथ संस्कारोच्छेदो बाधः ? सोऽपि तादृगेव, सम्यक्प्रत्ययोपजनितसंस्कारस्याप्युच्छेददर्शनात् । कश्चिद् भवदभिमतबाध्यबोधाहितोऽपि संस्कारः सत्यपि बाधकप्रत्यये नोच्छेदमुपगच्छति कालान्तरे तत्कारणकतद्विषयस्मरणदर्शनात् ।
अथ विषयस्यापहारो वाधः ? सोऽपि दुर्घटः, प्रतिभासत्वेन विषयस्यापहर्तुमशक्यत्वात्, न हि बाधकं ज्ञानमित्थमुत्तिष्ठति यत् प्रतिभातं तन्न प्रतिभातमिति ।
अथ तदभावग्रहो बाधः ? स तात्कालिकः कालान्तरभावी वा ? कालान्तरभावितदभावग्रहणस्य बाधकत्वे प्रागवगतमुद्गरदलितघटाभावग्राहिणोऽपि विज्ञानस्य तबाधकत्वप्रसङ्गः । तदैव तु तदभावग्रहणे प्रत्ययद्वयसमर्पितरूपद्वितय
योगादुभयात्मकमेव तदस्तु वस्तु किं कस्य बाध्यं बाधकं वा । 10 अथ फलापहारो बाधः ? सोऽपि न सम्भवति, संविदः प्रमाणफलस्य उत्पन्नत्वेनानपहरणीयत्वात् । न हि यदुत्पन्नं तदनुत्पन्नमिति वदति बाधकः । अथ हानादिफलापहारो बाधः ? न, तस्य प्रमाणफलत्वाभावात् ।
हानादिव्यवहारो हि पुरुषेच्छानिबन्धनः।
न तेनापहृतेनापि प्रमाणं बाधितं भवेत् ॥ तस्मान्न बाधो नाम कश्चित् । इतश्च नास्ति, स हि समानविषययोर्वा ज्ञानयोरिष्यते भिन्नविषययोर्वा ? न समानविषययोर्धारावाहिज्ञानेष्वदृष्टत्वात् । नापि भिन्नविषययोः, स्तम्भकुम्भोपलम्भयोस्तदनुपलम्भात् । यदि चोत्तरेण ज्ञानेन पूर्वज्ञानेन गृहीतादर्थादर्थोऽन्य इदानीं गृहीतस्तत् पूर्वज्ञानं किमिति बाधितमुच्यते ?
अपि च पूर्वस्मिन् प्रत्यये प्राप्तप्रतिष्ठे सति आगन्तुरुत्तरः प्रत्ययो बाधितुं युक्तं न पूर्वो, न चैवं दृश्यते। तस्मान्न बाध्यं नाम विज्ञानमस्ति, तदभावान्न तत्साधर्म्यनिबन्धनः संशयः, तदभावात संवादाद्यनन्वेषणान्न परतः प्रामाण्यम् । विपरीतख्यातौ शङ्कान्तरम्
नन्वेवं बाधेऽपि निराक्रियमाणे किममी शुक्तिकारजतादिग्राहिणो विपरीतप्रत्यया अबाधिता एवासताम् ? आः कुमते ! नामी विपरीतप्रत्ययाः, न होदशानां १ विपर्ययाणामुत्पत्तौ किमपि कारणमुत्पश्यामः। न तावदिन्द्रियम्, एवं विधबोधविधायि
भवितुमर्हति, सर्वदा तदुत्पादप्रसङ्गात् । नापि दोषकलुषितं दुष्टं कारणं स्वकार्य