________________
आह्निकम् ]
प्रमाण प्रकरणम्
परिहृतं भवति । दृष्टे विषये प्रमाणपरीक्षां विनैव व्यवहारात्, अदृष्टे तु परीक्षाया
अवश्यकर्त्तव्यत्वादुपपत्तेश्चेति ।
तस्माददृष्टपुरुषार्थ पदोपदेशि
मानं मनीषिभिरवश्यपरीक्षणीयम् ।
प्रामाण्यमस्य परतो निरणायि चेति चेतः प्रमाथिभिरलं कुविकल्पजालैः ॥
प्रभाकरमतेऽख्यातिवादेन परतः प्रामाण्यखण्डनम्
सुशिक्षितास्त्वाचक्षते युक्तं यदमी मीमांसकपाशाः काशकुसुमराशय इव शरदि मरुद्भिरतिदूरात् समुत्सार्यन्ते दुष्टताकिकः । ये हि किलाभ्युपयन्ति च विपतख्यातिवादमकृतास्त्राः, प्रामाण्यश्व स्वत इति च वदन्ति तेषां कुतः कौशलम्, विपरीतख्यातावभ्युपगम्यमानायां बाध्यबोधसन्दर्भ सुभिक्षे सति तत्साधर्म्यादनुत्पन्नarrest बोधे दुष्परिहरः संशयः, संशये च संवादाद्यन्वेषणमपि ध्रुवमवतरतीति परतः प्रामाण्यमनिवार्यम् ।
२४३
कथं पुनर्बाध्यो नाम नास्ति बोध: ? शुक्तिकादौ रजतादिप्रत्ययाः प्राचुर्येण बाध्यमाना दृश्यन्ते । अनभिज्ञो भवान् न हि ते बाध्याः प्रत्ययाः । इदं हि निरूप्यतां क इवोत्तरज्ञानेन पूर्वज्ञानस्य बाधः । बाधार्थमेव न विद्मः । यदि तावन्नाश एव बाधः स न तेषामेव, बुद्धेर्बुद्धयन्तराद् विरोध इति सकलबोधसाधारणत्वात् । अथ सहानवस्थानम्, तदपि समानम्, अबाधितानामपि ज्ञानानां सहावस्थानासम्भवात् ।
प्रामाण्यमस्य निरणायि निश्चितम् ।
सुशिक्षितास्त्विति प्राभाकरान् निर्दिशति ।
३२
5
तन्मते ज्ञानानामवाध्यत्वात् प्रामाण्यं स्वत एव
यदा तु न बाध्यो नाम जगति कश्चिदपि बोधस्तदा किसाधर्म्यात् संशेरतां 15 प्रमातारः ? असंशयानाश्च किमिति परमपेक्षन्ताम् ? अनपेक्षमाणाः कथं परतः प्रामाण्यं प्रतिपद्यन्ताम् ? इति निश्चलं स्वत एव प्रामाण्यमवतिष्ठते ।
#!
10
20