________________
२४८
न्यायमञ्जयां
[ तृतीयम्
नवस्थापादनम्, अप्रतिपत्तिप्रहतताकथनं वा, तद्दष्टे विरुद्धत्वात् प्रलापमात्रम्, इत्यलमलीकोक्तविकल्पकलापनिर्मथनोदितदुरामोदास्वादनेन । स्थितमेतदर्थक्रियाज्ञानात प्रामाण्यनिश्चय इति । तदिदमुक्तम् 'प्रमाणतोऽर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्या
दर्थवत् प्रमाणम्' इति । तस्मादप्रामाण्यमपि परोक्षमित्यतो द्वयमपि परत इत्येष 5 एव पक्षः श्रेयान् ।
यत्तु कश्चित् प्राज्ञमानी वदति अभ्यस्ते विषये स्वतः प्रामाण्यम्, अनभ्यस्ते तु परत इति, सोऽयमभ्यस्ते विषये इति च ब्रवीति स्वतश्च प्रामाण्यं मन्यते इति स्वयमेवात्मानं वाच्यमानं न चेतयते । अभ्यासो हि नाम पुनः पुनः प्रयोगक्रियाभ्या
वृत्तिः, विषयस्य चाभ्यस्तता भूयो भूयः प्रवृत्तिः । अतश्च स्वशरीरग्रहे, निजगृह10 कुड्यस्तम्भादिप्रतिभासे वा सहस्रकृत्वः प्रवृत्तिसंवादज्ञानजन्मना प्रामाण्यनिश्चय
उक्तो भवति । स्वतोऽभ्यस्तत्वं चान्यथा न भवेदिति यत्किञ्चिदेतत् । तस्मात् परतः प्रामाण्यमिति सिद्धम्।
यत्पुनः कैश्चिच्चोद्यते, प्रमाणानां न परीक्षणमुपपद्यते। तद्धि प्रमाणः क्रियेताप्रमाणैर्वा, प्रमाणैरपिपरीक्षितैरपरीक्षितैर्वा । तत्रन नाम प्रमाणपरीक्षणं शक्यक्रियम्। प्रमाणैरप्यपरीक्षितः, तत्करणे वरं व्यवहार एव तादृशैः क्रियतां कि परीक्षणेन ? परीक्षितैस्तु तत्परीक्षाकरणमपर्यवसितमनवस्थाप्रसङ्गादित्यादि, तदप्युक्तेन न्यायेन
10
20
यत्वम्, तत्प्रामाण्यादर्थक्रियाज्ञानप्रामाण्यम् अर्थक्रियाज्ञानप्रामाण्याच्च तत्प्रामाण्यम् । एतदेव 'अप्रतिपत्तिप्रहतताकथनं वा' इत्यनेनोक्तम्, इतरेतराश्रयत्वे हि एकाप्रतिपत्तावितराप्रतिपत्तिरिति । प्रमाणतोऽर्थप्रतिपत्ताविति । प्रमाणादर्थप्रतिपत्तिस्ततः प्रवृत्तेश्च सामर्थ्य फलाभिसम्बन्धस्ततोऽर्थवत् प्रमाणं ज्ञायते, अर्थसहकारित्वेन ज्ञायते प्रमाणतया ज्ञायत इत्यर्थः।
प्रयोगक्रियाभ्यावृत्तिरिति । यथा 'द्विभुक्तः' इति भोजनस्य या प्रयोगक्रियाऽनुष्ठानसम्पादनं तस्याभ्यावृत्तिः पौनःपुन्यम्।।
परीक्षितस्तु तत्परीक्षाकरणमिति । यैः प्रमाणैः परीक्षितैः परीक्षा क्रियते तेषामपि परीक्षितानां प्रमाणानां परीक्षाकारीणि प्रमाणानि अप्रमाणानि वा ? अप्रमाणे: परीक्षाकरणमयुक्तम्, प्रमाणैश्चैतेषामपि प्रामाण्यपरीक्षणमन्यत इति अनवस्था ।
25