________________
२४७
आह्निकम् ]
प्रमाणप्रकरणम् दोषविरहः, आलोकस्य मलीमसत्वादिकारणवैकल्यम्, अन्तःकरणस्य निद्राद्यदूषितत्वम्, आत्मनः क्षुत्प्रकोपाद्यनाकुलत्वम्, ईक्षणयुगलस्य तिमिरपटलाद्यविकलत्वमित्यादि, स्वयञ्च कार्यद्वारेण परोपदेशेन च सर्व सुज्ञानम् । अतो निरवद्यकारणजन्यत्वात् प्रमाणमर्थक्रियाज्ञानमिति विद्मः।
यद्येवं प्रथमे प्रवर्तके एव प्रत्यये कस्मात कारणपरीक्षवेयं न क्रियते, किमर्थं 5 क्रियाज्ञाने ? न। आयुष्मन् न आयेऽपि ज्ञाने कारणपरीक्षायां क्रियमाणायां कः प्रमादः? किमेवं सति स्वतःप्रामाण्यं सिद्धयति तव, मम वा परतः प्रामाण्यमपहीयते ? किन्तु लोकः प्रवर्तकज्ञानानन्तरं फलप्राप्ति प्रति यथा सोद्यमो दृश्यते न तथा तत्कारणपरीक्षा प्रति, फलज्ञानमेवेत्थं परीक्ष्यते। आद्यस्य हि ज्ञानस्य फलज्ञानादेव प्रामाण्यसिद्धिः । कश्च नाम निकटमुपायमुपेक्ष्य दूरं गच्छेदिति ।
अथ संशयोत्पत्तिसामर्थ्यादेव यथार्थनिश्चयः फलज्ञानेन लप्स्यते । संशयो हि नाम द्वैविध्यदर्शनाद् विना न भवत्येव । न हि स्थाणुपुरुषसाहचर्यमूर्ध्वताख्यस्य । धर्मस्य यो न जानाति स तं दृष्ट्वा स्थाणुर्वा स्यात् पुरुषो वेति संशेते। एवमूर्ध्वत्वाद् बाधरूपत्वस्य व्यभिचारित्वाव्यभिचारित्वाभ्यां सहदर्शनमवश्यमाश्रयणीयम्, अन्यथा तद्विषयसंशयानुत्पादाद् । अतः पूर्वमव्यभिचारित्वदर्शने सिद्धे यस्तदा 15 तत्परिच्छेदोपायः स पश्चादपि भविष्यतीति सर्वथा सिद्धयत्यव्यभिचारित्वनिश्चयः। अनिश्चितप्रामाण्यादपि वा फलज्ञानात् प्रवर्तकस्य प्रामाण्यनिश्चयो युक्तः, न तु स्वत उत्पत्तौ प्रमाणतदाभासयोविशेषाग्रहणात्, फलज्ञाने च तद्विशेषप्रतिभासात् ।
यत्तु तद् विशेषज्ञानमपि निश्चितप्रामाण्यमनिश्चितप्रामाण्यं वेति विकल्प्या
अत.पूर्वमव्यभिचारित्वदर्शने सिद्ध इति । किञ्चित् फलज्ञानमव्यभिचारि दृष्टम् 20 किञ्चिच्च व्यभिचारि यदा तदा तृतीये ज्ञाने संशयः। तत्र यदव्यभिचारि दृष्टं तस्य यथा अव्यभिचारित्वग्रहस्तथा अस्यापि इति भावः ।
___ यत्तु तद्विशेषज्ञानमपीति । अर्थक्रियायां यद्विशेषज्ञानांशे च आचमनादिकार्यकलापज्ञानं प्रागुदाहृतं तदपिज्ञानत्वादन्यतो निश्चितप्रामाण्यमिति तन्निश्चायकस्याप्यन्यतः प्रामाण्यनिश्चय इत्यनवस्था। अर्थक्रियाज्ञानप्रामाण्याद्वा तत्प्रामाण्यनिश्चये इतरेत राश्र- 25