________________
२४६
न्यायमञ्जयां
[तृतीयम् त्स्वरूपमुक्तम्, तत्पुन तीव हृदयङ्गमम्, इति भाष्यकृतव 'समीहा प्रवृत्तिरित्युच्यते सामर्थ्य पुनरस्याः फलेनाभिसम्बन्धः' इति वदता अर्थक्रियारूपफलज्ञानमेव प्रवृत्तिसामर्थ्यमिति निर्णीतम्।
यत्पुनरर्थक्रियाज्ञानस्यापि पूर्वस्मात् को विशेषः ? तस्यापि चान्यतः प्रामाण्य5 निश्चयापेक्षायामनवस्थेत्युक्तम्, तदपि सकलप्राणभृत्प्रतीतिसाक्षिकव्यवहारविरो
धित्वादसम्बद्धाभिधानम् । अपरीक्षणीयप्रामाण्यत्वादर्थक्रियाज्ञानस्य, प्रवर्तकं न सर्वज्ञानं प्रवृत्तिसिद्धये परीक्षणीयप्रामाण्यं वर्तते । फलज्ञाने तु सिद्धप्रयोजनत्वात् प्रामाण्यपरीक्षापेक्षव नास्तीति कुतोऽनवस्था ? संशयाभावाद्वा तत् प्रामाण्यविचारा
भावः । प्रवर्तकं हि प्रथममुदकज्ञानमविद्यमानेऽपि नीरे मिहिरमरीचिषु दृष्टमिति 10 तत्र संशेरते जनाः । अर्थक्रियाज्ञानन्तु सलिलमध्यवत्तिनां भवत् तदविनाभूतमेव
भवतीति न तत्र संशयः। तदभावान्न तत्र प्रामाण्यविचारः, विचारस्य संशयपूर्वकत्वात् । विशेषदर्शनाद् वा फलज्ञाने प्रामाण्यनिश्चयः।
कः पुनविशेष इति चेत्, योऽयं शौचाचमनमज्जनामरपितृतर्पणपटक्षालनश्रमतापनोदनविनोदनाद्यनेकप्रकारनीरपर्यालोचनप्रबन्धः, न ह्ययमियान कार्यकलापो मिथ्याज्ञानात् प्रवृत्तस्य क्वचिदपि दृष्टः। स्वप्नेऽप्यस्य प्रबन्धस्य दर्शनमस्तीति चेद, न, स्वप्नदशाविसदृशविस्पष्टजाग्रदवस्थाप्रत्ययस्य संवेद्यत्वात्, एषोऽस्मि . जामि न स्वपिमीति स्वप्नविलक्षणमनिद्रायमाणः प्रत्यक्षमेव जाग्रत् समयं सकलो जनश्चेतयते, न च तस्मिन्नवसरे सलिलमन्तरेणताः क्रियाः वर्तमाना दृश्यन्ते इति
तद्विशेषदर्शनात् सुज्ञानमर्थक्रियाज्ञानप्रामाण्यम् । कारणपरीक्षातो वा तस्मिन् 20 प्रामाण्यं निश्चेष्यामः। यथोक्तं भवद्भिरेव 'प्रयत्नेनान्विच्छन्तो न चेद्दोषमवगच्छेम
तत्प्रमाणभावाददुष्टमिति मन्येमहि' इति । तथा हि विषयस्य चलत्वसादृश्यादि
दर्शनादित्यभिप्रायेणोक्तम् विशेषदर्शनं वेति । नातीव हृदयङ्गममिति । उत्तरस्या अपि संविदः कदाचिदसत्यर्थे समुत्पादाशङ्कासम्भवाद् विशेषदर्शनस्य चासत्यपि विशेष
इति । तथा च विशेषदर्शनेऽपि संशीतिः क्वचित् कराद्यवयवावलोकरूपे, तथाहि 25 तस्याः पाणिरयं न कोमलदलश्चलत्यत्राङ्गलिपल्लवः' इत्यादौ संशय्य पश्चान्निश्चिनुते ।
विषयस्य चलत्वेति । चलत्वं मरीचिकादौ, सादृश्यं शुक्तिकादौ ।