________________
२४.
आह्निकम् ]
प्रमाणप्रकरणम् यदपि प्रामाण्यनिश्चये नैरपेक्ष्यमभ्यधायि, तदपि न साम्प्रतम् । प्रामाण्यनिश्चयस्य हि द्वयी गतिनास्तित्वं कारणापेक्षिता वा । न पुनररित च प्रामाण्यनिश्चयः कारणानपेक्षश्चेति शक्यते वक्तुम । तत्र प्रथमप्रवर्तकप्रतिभासप्रसवसमये तावन्नास्त्येव प्रामाण्यनिश्चय इत्युक्तम्, न हि नीलग्राहिणा प्रमाणन नीलस्वरूपमिव स्वप्रामाण्यमपि तदानीं निश्चेतुं शक्यते इति कालान्तरे तत्प्रामाण्यनिश्चयः। 5 सत्यमस्ति, न तु तत्र नैरपेक्ष्यम्, प्रवृत्तिसामर्थ्याधीनत्वात्तनिश्चयस्य ।
ननु क्षणिकत्वात् कालान्तरे ज्ञानमेव नास्ति कस्य प्रामाण्यं निश्चिनुमः ? शिशुचोद्यमेतद् । अप्रामाण्यमपि बाधकप्रत्ययादिना कालान्तरे कस्य निश्चिनुमः ? क्षणिकत्वेन ज्ञानस्यातीतत्वात् । अतिक्रान्तस्यापि स्मर्यभागस्य तदुत्पादस्य वा वर्तमानस्य कारकचक्रस्येति चेत् प्रामाण्यनिश्चयेऽपि समानोऽयं पन्थाः। 10
यत्पुनः कालान्तरे तन्निश्चयकरणे दूषणमितरेतराश्रयत्वं वा मुण्डितशिरोनक्षत्रान्वेषणवद् वैयर्थ्य वेति वणितम्, तत्रादृष्टे विषये प्रामाण्यनिश्चयपूविकायाः प्रवृत्तेरभ्युपगमान्नेतरेतराश्रयम्, चक्रकं वा । दृष्टे विषये ह्यनिर्णीतप्रामाण्य एवार्थसंशयात् प्रवृत्तिरूपम्, अनर्थसंशयाच्च निवृत्त्यात्मकं व्यवहारमारभमाणो दृश्यते लोकः, एतदेव युक्तमित्युक्तम् । न प्रामाण्यनिश्चयपुरःसरं प्रवर्तनमिति कुत इतरेतरा- 15 श्रयम् । वैयर्थ्यन्तु दृष्टे विषये सत्यमिष्यते, किन्तु तत्र प्रवृत्तिसामर्थ्येन प्रामाण्यं निश्चिन्वन्नाप्तोक्तत्वस्य हेतोः प्रामाण्येन व्याप्तिमवगच्छतीति, ह्यदृष्टविषयोपयोगिवेदादिप्रमाणप्रामाण्यपरिच्छेदे पारम्पर्येणोपायत्वात् स्वविषये व्यर्थोऽप्यसौ तत्र सार्थकतामवलम्बते इत्यदोषः।
किं पुनरिदं प्रवृत्तिसामर्थ्य नाम, यतः प्रामाण्यनिश्चयमाचक्षते नैयायिकाः ? 20 उच्यते। पूर्वप्रत्ययापेक्षोत्तरा संवित् प्रवृत्तिसामर्थ्यम्, विशेषदर्शनं वेति पूर्वाचार्यंस्त
पूर्वप्रत्ययापेक्षेति । व्यभिचारिता हि ज्ञानस्य दोषहेतुका, ते च सन्निकर्षविप्रकर्षापेक्षाः कारणं मिथ्याधियः। तत्र यदा विप्रकर्षाद् दोषेभ्यः मिथ्याधीस्तदासौ सन्निकर्षान्निवर्तते, मरीचिष्विव दूराज्जाता जलधीः सन्निकर्षात्तु मरीचिधीरेव; यत्र पुनः सन्निकर्षविप्रकर्णयोरपि तथात्वं तत्र सम्यक्त्वमेव । इतीयं सा पूर्वप्रत्ययापेक्षोत्तरा संवित् । 25 संशयो हि साधर्म्यनिबन्धनो ज्ञाने विशेषदर्शनान्निवर्तते स्थाणाविव करपादादिविशेष