________________
10
२४४ न्यायमञ्जयां
[ तृतीयम् प्रामाण्यं स्वत इति पक्षं निराकृत्य तस्य स्वत उत्पत्तिनिराक्रियते
___ अथ स्वतः प्रामाण्यं भवतीत्येष पक्ष आश्रीयते, सोऽप्ययुक्तः, कार्याणां कारणाधीनजन्मत्वात् प्रामाण्यस्य च कार्यत्वात् । अस्ति च प्रामाण्यं वस्तु च, तन्न च नित्यमिति कार्यमेव तत् । कार्यञ्च कार्यत्वादेव न स्वतो भवितुमर्हति इति । अथोत्पत्तौ स्वकारकातिरिक्तगुणानपेक्षित्वमेव प्रामाण्यस्य स्वतो भवनमुच्यते न पुनरकार्यत्वमेवेति । तदप्यसम्यक् । सम्यगरूपस्य कार्यस्य गुणवत्कारकव्यतिरेकेणानिष्पत्तेः । द्विविधं कार्यं भवति सम्यगसम्यग् वा । तत्र गुणवता कारणेन सम्यक् कार्यमुत्पद्यते दोषवता त्वसम्यगिति ।
निर्दोषं निगुणं वापि न समस्त्येव कारणम् ।
अत एव तृतीयस्य न कार्यस्यास्ति सम्भवः ॥ सम्यग्ज्ञानोत्पादकम् कारकर्मिस्वरूपातिरिक्तस्वगतधर्मसापेक्ष कार्यनिर्वर्तकमिति साध्यो धर्मः, कारकत्वात्, मिथ्याज्ञानोत्पादककारकवत् । सम्यग्ज्ञानं वा, धर्मिस्वरूपातिरिक्तधर्मसम्बन्धवत्कारकनिष्पाद्यमिति साध्यो धर्मः, कार्यत्वान् मिथ्याज्ञानवत् । आयुर्वेदाच्चेन्द्रियगुणान् प्रतिपद्यामहे, यदमी वैद्याः स्वस्थवृत्तेरौषधोपयोगमुपदिशन्ति तद् गुणोपयोगायैव न दोषशान्तये । दृश्यते च तदुपदिष्टौषधोपयोगादिन्द्रियातिशयः, तद्विषय एव च लोके नर्मल्यव्यपदेशो न दोषाभावमात्रप्रतिष्ठ इत्यलं विमर्दैन । तस्मादुत्पत्तौ गुणानपेक्षत्वात् स्वतः प्रामाण्यमिति यदुक्तं तदयुक्तम् ।
यदपि च स्वकार्यकरणे प्रमाणस्य परानपेक्षत्वमुच्यते तदपि व्याख्येयम् । किं 20 प्रमाणं स्वकार्यकरणे निरपेक्षम्, सामग्री वा, तदेकदेशो वा तज्जन्यं वा, ज्ञानमिति ।
तत्र सामग्रयाः सत्यं स्वकार्यजन्मनि नरपेक्ष्यमस्ति, न तु तावता स्वतः प्रामाण्यम्, तत्परिच्छेदस्य परायत्तत्वात् । सामग्रयन्तर्गतकारकस्य स्वकार्ये परापेक्षत्वमपरिहार्यम्, एकस्मात् कारकात् कार्यनिर्वृत्त्यभावात् । ज्ञानं फलमेव न प्रमाणमित्यु
क्तम् । न च फलात्मनस्तस्य स्वकार्य किश्चिदस्ति यत्र सापेक्षत्वमनपेक्षत्वं वा 25 अस्य चिन्त्येत । पुरुषप्रवृत्त्यादौ तु तदिच्छाद्यपेक्षत्वं विद्यत एवेति यत्
किञ्चिदेतत् ।