________________
आह्निकम् ]
प्रमाण प्रकरणम्
ननु प्रमाणभूते प्रत्यये जायमान एव तद्गतो विशेषः परिस्फुरतीति कथं विशेषाग्रहणमुच्यते ? भो महात्मन् ! कथ्यतां स विशेषो न हि तं वयमनुपदिष्टं कृशमतयो जानीमः । यदि तावत् स्पष्टताविशेषः शुक्तिकायामपि रजतावभासः स्पष्ट एव न हि तत्रानध्यवसायकालुष्यं किश्चिदस्ति । अथ निष्कम्पता ? शुक्तिकाया- . मपि रजतावभासो निष्कम्प एव । न ह्यसौ जायमान एवाङ्गुल्यग्रादिवाक्य करण- 5 बोधवत् पमान जायते । अथ निविचिकित्सता ? शुक्तिकायामपि रजतावभासो fafafefore a fafस्वदिति कोटिद्वयानवमर्शात् । अथ यस्मिन् सति बाधा न दृश्यते सोऽस्य विशेष इति नन्वेतदेव पृच्छामि कस्मिन् सति बाधा न दृश्यते इति, सर्वावस्थस्य बाधदर्शनात् । न चासौ चिरमपि चिन्तयित्वा विशेषयितुं शक्यः । अथ स्वविषयाव्यभिचारित्वमेव विशेषः ? स तदानीं नावभासते इत्युक्तम् । अपि च यदि तथाविधोऽपि विशेषः समस्ति तहि यत्र ज्ञानेऽसौ न दृश्यते ततः किमिति प्रवर्त्तते ? तद्विशेषदर्शी वा प्रवर्त्तमानः कथं विप्रलभ्येतेत्युक्तम् यदयं स्थाणुर्न पुरुष: ?
10
तेनैव व्यवहारस्य सिद्धत्वात् सर्वदेहिनाम् । अतश्च संशयादेव व्यवहारं वितन्वताम् ।.
atrantri प्रयोक्तव्या नाभिशापपरम्परा ।
२४३
यदि तावत् स्पष्टतेति । सत्यरजतवदर्थान्तरविवेकेन यत्रार्थः प्रतिभासते स स्पष्टः । समनन्तरमेव विरुद्धज्ञानान्तरानपसार्यमाणस्वभावो निष्कम्पः । अनाश्वासस्थानं न भवति संभाव्यमानार्थत्वात् स निर्विचिकित्सः ।
अभिशापपरम्परा 'संशयात्मा विनश्यति' इत्यादिका ।
15
न च सर्वथा संशयसमर्थनेऽस्माकमभिनिवेशः । प्रामाण्यन्तु ज्ञानोत्पत्तिकाले ग्रहीतुमशक्यमिति नः पक्षः । प्रामाण्याग्रहणमेवानध्यवसायस्वभावं संशयशब्देनेह व्यपदेक्ष्यामः । प्रामाण्यग्रहणश्व प्रदर्शितम्, प्रत्यक्षेणानुमानेन वा सता प्रमाणेनात्मनः प्रमाणत्वपरिच्छेदायोगात् । तस्मात् स्वयं प्रामाण्यं गृह्यते इत्येष 20 दुर्घटः पक्षः ।
25