________________
२४२
न्यायमञ्जयां
[ तृतीयम्
पुरुषान्तरे वा जाततैमिरिके द्विचन्द्रप्रतीतौ, अवस्थान्तरे पोतशङ्कादिप्रतिभासे भवति बाधकप्रत्ययः । तदसत्त्वे न तच्छङ्का युक्तिमतीत्युक्तमेव ! सत्यमुक्तमयुक्तन्तु एवं हि वदता बाधकामावज्ञानाधीनं प्रामाण्यमभिहितं भवति, तच्च तात्कालिकं
कालान्तरभावि वेति कल्प्यमानं नोपपद्यते इति दर्शितम् । तस्मादुत्पद्यमानमेव 5 प्रमाणमात्मनः प्रामाण्यं निश्चिनोतीति न युक्तमेतत् । यदि तु प्रसवसमये एव
ज्ञानस्य प्रामाण्यं निश्चिनुयामः, तहि ततः प्रवर्तमाना न क्वचिदपि विप्रलभ्येमहि, विप्रलभ्यामहे तु, तेन मन्यामहे न निश्चितं तत्रामाण्यं संशयादेव व्यवहराम इति।
ननु संशयोऽपि तदा नानुभूयते एव किमिदं रजतमिति अपि तु रजत10 मित्येव प्रतीतिः । न हि संशयानाः प्रवर्तन्ते लौकिकाः किन्तु निश्चिन्वन्त एव
विषयमिति । किमननुभूयमान एवारोप्यते संशयः ? एकतरग्राह्यप्ययं प्रत्ययः तन्निश्चयोपायविरहात् संशयकोटिपतित एव बलाद्भवति, यथास्ति कूपे जलमिति भिक्षवो मन्यन्ते । एवं रजतमिदमित्येकपक्षग्राह्यपि तदानी प्रतिभासः वस्तुवृत्तेन
संशय एव, यदि हि प्रमाणतयासौ गृह्येत कथं क्वचिद् विसंवदेत् । अप्रसाणतया तु 15 गृह्यमाणः कथं पुमांसं प्रवर्तयेत् ?
उभाभ्यामपि रूपाभ्यामथ तस्यानुपग्रहः।
सोऽयं संशय एव स्यादिति किं नः प्रकुप्यसि ॥ यत्तु नानुभूयते संशय इति । सत्यम् । अननुभूयमानोऽपि न्यायादभ्यस्ते विषयेऽविनाभावस्मरणात् सपरिकल्प्यते, निश्चयनिमित्तस्य तदानीमविद्यमानत्वात्, 20 संशयजननहेतोश्च सामग्रयाः सन्निहितत्वात् । तथा हि यथार्थेतरार्थसाधारणो धर्मो
बोधरूपत्वमव॑त्वादिवत तदा प्रकाशते एव, न च प्रामाण्याविनाभावी विशेषः कश्चन तदानीमवभाति, तदग्रहणे च समानधर्माधिगम प्रबोध्यमानवासनाधीना तत्सहचरितपर्यायानुभूतविशेषस्मृतिरपि सम्भवत्येवेति, इयं सा संशयजननी सामग्री सन्निहितैवेति कथं तज्जन्यः संशयो न स्यात् ?
अस्ति कूपे जलमिति । एतद् ज्ञानमुभयकोटिस्पृक्त्वेनानुत्पद्यमानमपि संवादविसंवादाभावात् संशय इति कल्प्यते । संवादे सम्यग् ज्ञानं स्यात् दिवादे तु मिथ्या, संशयविपर्ययसम्यग्ज्ञानातिरिक्तस्य चतुर्थस्य ज्ञानात्मनोऽनभ्युपगमात्तु संशय एव ।