________________
प्रमाणप्रकरणम्
आह्निकम् ]
२४१ ___ यच्चेदमियता विस्तरेण स्वतःप्रामाण्यमुपपादितं तद् व्याख्येयम् । स्वतः प्रामाण्यमिति कोऽर्थः, 'किं स्वत एव प्रमाणस्य प्रामाण्यं भवति' उत स्वयमेव तत् प्रमाणमात्मनः प्रामाण्यं गृह्णातीति ? न तावत् स्वयमेव प्रामाण्यग्रहणमुपपन्नम्, अप्रामाणिकत्वात्। तथाहि यदेतन्नीलप्रकाशने प्रवृत्तं प्रत्यक्षं तन्नीलंप्रति तावत् प्रत्यक्षं प्रमाणं तावदिन्द्रियार्थसन्निकर्षीत्पन्न मिति जानीम एव, एतत्किमत्र विचार्यते। 5 प्रामाण्यपरिच्छेदे तु किं तत्प्रमाणमिति चिन्त्यताम्, प्रत्यक्षननुमानं वा, प्रमाणान्तराणामनाशङ्कनीयत्वात् । न तावत् स्वप्रामाण्यपरिच्छेदे तत् प्रत्यक्ष प्रमाणं तद्विज्ञानस्य वा प्रामाण्यं गृह्णीयात्, तत्फलस्यवा। तत्र ज्ञातृव्यापारात्मनो ज्ञानस्य भवन्मते नित्यपरोक्षत्वात् प्रत्यक्षतः परिच्छेदानुपपत्तौ तत्प्रामाण्यस्यापि कथं प्रत्यक्षेण ग्रहणम् ? फलस्याप्यर्थप्रकाशनाख्यस्य संवेदनात्मनो नेन्द्रियसंसर्गयोग्यता विद्यते, येन 10 तद्गतमपि यथार्थत्वलक्षणं प्रामाण्यमिन्द्रियव्यापारलब्धजन्मना प्रत्यक्षेण परिच्छिधेत । न च मानसमपि प्रत्यक्षं फलगतयथार्थतावसायसमर्थमिति कथनीयम्, तदानीमननुभूयमानत्वात् । न हि नीलसंवित्प्रसवसमनन्तरं यथार्थेयं नीलसंवित्तिरिति संवेदनान्तरमुत्पद्यमानमनुभूयते।अनुभवे वा ततो द्वितीयात् प्रथमोत्पन्ननीलज्ञानयाथार्थ्यग्रहणान्न स्वतः प्रामाण्यनिश्चयः स्यात् । तस्मान्न प्रत्यक्षस्यैव विषयः। अनुमाने- 15 नापि कस्य प्रामाण्यं निश्चीयते ज्ञानस्य फलस्य वेति पूर्ववद्वाच्यम्। फलस्य तावत्तन्निश्चये लिङ्गत्वमेव तावन्न कस्यचित् पश्यामः । ज्ञातृव्यापारात्मनो ज्ञानस्य तु स्वकार्य फलं भवेदपि लिङ्ग फलस्य क्रियामात्रव्याप्तिग्रहणात् स्वरूपसत्तामात्रमनुमापयितुमुत्सहते न यथार्थत्वलक्षणं प्रामाण्यम् । तद्धि फलं निविशेषणं वा स्वकारणस्य ज्ञातृव्यापारस्य प्रामाण्यमनुमापयेद्, यथार्थत्वविशिष्टं वा ? आद्ये पक्षे यतः कुतश्चन 20 फलात् तत्प्रामाण्यानुमाने नेदानों किञ्चिदप्रमाणं भवेत् । उत्तरोऽपि नास्ति पक्षः फलगतयाथार्थ्यपरिच्छेदोपायाभावादित्युक्तम् ।
ननु सोऽनुभव एवात्रोपायः । तद्धि नीलसंवेदनतया फलं स्वत एव प्रकाशते, नीलसंवेदनत्वमेव चास्य यथार्थत्वं नान्यत् । यद्येवं शुक्तिकायामपि रजतसंवेदने समानो न्यायः, न हि रजतसंवेदनादन्या यथार्थत्वसंवित्तिरिति ।
25
ननु तत्र बाधकप्रत्ययोपनिपातेनायथार्थत्वमुपनीयते नूनं चास्य मिथ्यादर्शनेषु, देशान्तरे वा शुक्तिकारजतादिज्ञाने, कालान्तरे वा कूटकार्षापणादिप्रतीतो,