________________
२४०
5
10
20
न्यायमञ्जय
प्रामाण्यस्य स्वतस्त्वपरिहारः
अत्राभिधीयते । प्रत्यक्षादिषु दृष्टार्थेषु प्रमाणेषु प्रामाण्यनिश्चयमन्तरेणैव व्यवहारसिद्धेस्तत्र किं स्वतः प्रामाण्यमुत परत इति विचारेण न नः प्रयोजनम्, अनिर्णय एव तत्र श्रेयान् । अदृष्टे तु विषये वैदिकेष्वगणितद्रविणवितरणादिक्लेशसाध्येषु कर्मसु तत्प्रामाण्यावधारणमन्तरेण प्रेक्षावतां प्रवर्त्तनमनुचितमिति तस्य 15 प्रामाण्यनिश्चयोऽवश्यकर्त्तव्यः । तत्र परत एव वेदस्य प्रामाण्यमिति वक्ष्यामः ।
25
तदिदमुक्तं 'तत्प्रमाणं बादरायणस्यानपेक्षत्वादि'ति । गिरां मिथ्यात्व हेतूनां दोषाणां पुरुषाश्रयात् । अपौरुषेयं सत्यार्थमिति युक्तं प्रचक्षते ॥ गिरां सत्यत्वहेतूनां गुणानां पुरुषाश्रयात् । अपौरुषेयं सत्यार्थमित्ययुक्तन्तु मन्वते ॥ न हि पुरुषगुणानां सत्यता साधनत्वं वचसि खलु निसर्गादेव सत्यत्वसिद्धिः । गुणमपि नरवाचां विप्लवाधायिदोषप्रशमनचरितार्थं सङ्गिरन्ते गुणज्ञाः ॥
[ तृतीयम्
तत् प्रमाणं बादरायणस्येति । तत् शाब्दं बादरायणस्याचार्यस्य मतेऽनपेक्षत्वात् प्रमाणम्, अन्यानपेक्षं प्रमाणं स्वत एव प्रमाणमित्यर्थः ।
एवं मीमांसकदृष्ट्या स्वतः प्रामाण्यं प्रतिपाद्य वेदस्य तदप्रामाण्ये धर्मकीर्तेः । श्लोकद्वयम्
गिरां मिथ्यात्व हेतूनां दोषाणां पुरुषाश्रयात् । अपौरुषेयं सत्यार्थमिति केचित् प्रचक्षते ॥
इत्येकं मीमांसकमतानुवादतया व्यवस्थितमपरञ्च तत्प्रतिषेधाय
गिरां सत्यत्वहेतूनां गुणानां पुरुषाश्रयात् ।
अपौरुषेयं मिथ्यार्थं किन्नेत्यन्ये प्रचक्षते ॥
इति व्यत्ययेनेति तदिदानीं यथा पठितुं युज्यते तथा पठितुमाह गिरां मिथ्यात्वहेतुनामित्यादिना ।