________________
आह्निकम् ]
प्रमाणप्रकरणम्
२३६
तत्र प्रथमस्य प्रामाण्यमौत्सगिकं स्थितमेव, द्वितीय विज्ञानारोपितालीककालुष्यशङ्कानिराकरणन्त्वस्य तृतीयेन क्रियते, न त्वस्य संवादात् प्रामाण्यम् । यदि तु द्वितीयज्ञानसंवादि तृतीयं ज्ञानं तदा प्रथमस्याप्रामाण्यम्, तच्च परत इष्टमेव । द्वितीयस्य तु ज्ञानस्य न तृतीयसंवादकृतं प्रामाण्यम्, अपि तु सङ्कल्प्यमानकुशङ्काचमनमात्रे तस्य व्यापारः। उक्तञ्च
एवं त्रिचतुरज्ञानजन्मनो नाधिका मतिः।
प्रार्थ्यते तावतैवकं स्वतः प्रामाण्यमश्नुते ॥ इति । तदेवं सर्वप्रमाणानां स्वतः प्रामाण्ये सिद्धे समानन्यायतया शब्दस्यापि तथैव प्रामाण्यं भवति । न च नैसर्गिकमर्थासंस्पशित्वमेव शब्दस्य स्वरूपमिति परीक्षितमेतत्, किन्त्वर्थबोधजनकत्वात् तस्य नैसगिके प्रामाण्ये सति पुरुषदोषानु- 10 प्रवेशकारितः क्वचिद्धि विप्लवः। तदुक्तम्, 'शब्दे दोषोद्भवस्तावद् वक्त्रधीन इति स्थितम् । तत्र पौरुषेये वचसि गुणवति वक्तरि तद्गुणापसारितदोषतया तत्प्रामाण्यमौत्सर्गिकमनपोदितं भवति । न तु गुणकृतं तत्प्रामाण्यमनङ्गत्वात् प्रामाण्ये गुणानाम्, बोधकत्वनिबन्धनमेव तदित्युक्तम् । वेदस्यापौरुषेयत्वात् स्वतः प्रामाण्यम्
वेदे तु प्रणेतुः पुरुषस्याभावात् दोषाशळेव न प्रवर्ततें, वक्त्रधीनत्वाघोषाणाम् । न च बाधकप्रत्ययोऽद्ययावद् वेदार्थे कस्यचिदुत्पन्न इति निरपवादं वेदप्रामाण्यम् । आह च
तत्रापवादनिमुक्तिर्वक्त्रभावाल्लघीयसी। वेदे तेनाप्रमाणत्वं न शङ्कामधिगच्छतीति ॥ - 20
15
तथात्वमेव स्वप्रतिभास्यस्यार्थस्यावेदयते; न वै तत् तथात्वमतथात्वञ्चैकस्य वस्तुनः सम्भवतीत्यर्थाद् बाध इत्यर्थः ।
त्रिचतुरज्ञानजन्मनो नाधिकेति । जन्मन इति पञ्चमी ।
वक्त्रधीन इति स्थितमित्यस्यापरमर्धम् 'तदभावः क्वचित्तावद् गुणवद्वक्तकत्वतः' इति ।
वक्तभावाल्लघीयसी अयत्नसिद्धा।