________________
२३८
.
न्यायमञ्जयां
[ तृतीयम् 'गोदोहनेन पशुकामस्य प्रणयेदि ति काम्यमानपशुनिर्देशात् पुरुषार्थगोदोहनेन निवृत्ते तस्मिंश्चमसो निवर्त्तते । एवमिह कारणदोषज्ञानं दोषविषयमपि दोषाणामयथार्थज्ञानजननस्वभावत्वात् तस्य ज्ञानस्य प्रामाण्यं बाधते । तदुक्तम्
दुष्टकारणबोधे तु जातेऽपि विषयान्तरे।
अर्थात् तुल्यार्थतां प्राप्य बाधो गोदोहनादिवदिति ॥ यत्र पुनरिदमपवादद्वयमपि न दृश्यते तत्र तदौत्तगिकं प्रामाण्यमनपोदितमास्ते इति न मिथ्यात्वाशङ्कायां निमित्तं किञ्चित् । यदाह
दोषज्ञाने त्वनुत्पन्ने नाशङ्का निष्प्रमाणिका । इति । तथाहि
कश्चिदुत्पन्न एवेह स्वसंवेद्योऽस्ति संशयः। स्थाणुर्वा पुरुषो वेति को नामापह नुवीत तम् ॥ हठादुत्पद्यमानस्तु हिनस्ति सकलाः क्रियाः । स्वभार्यापरिरम्भेऽपि भवेन्मातरि संशयः ॥ विनाशी संशयात्मेति पाराशर्योऽप्यभाषत ।
नायं लोकोऽस्ति कौन्तेय न परः संशयात्मनः ॥ इति । यत्रापि क्वचिद् बाधकप्रत्यये संशयो जायते तत्रापि तृतीयज्ञानापेक्षणान्नानवस्था, न च स्वतः प्रामाण्यहानिः । यत्र प्रथमविज्ञानसंवादि तृतीयज्ञानमुत्पद्यते
15
गोदोहनेन पशुकामस्य प्रणयेदिति । यः पशुकामो यजमानस्तदर्थं गावो दुह्यन्ते यस्मिन् पात्रे तेनाध्वर्युरपां प्रणयनं कुर्यात्; अत्र गोदोहनमिष्टपशुसम्पादकत्वेन पुरुषेणा20 yमानत्वात् पुरुषार्थम्, क्रतोस्तु चमसकृतेनैव प्रणयनेनोपकारसिद्धः क्रतुनाऽनपेक्षमाण
त्वान्न क्रत्वर्थम् । तदेवमनयोः क्रत्वर्थपुरुषार्थत्वेन भिन्नविषयत्वेऽपि गोदोहनं प्रणयनमकुर्वन्न फलाय प्रभवति, क्रियामनाश्रित्य कारणस्य शुद्धस्य फलं जनयितुमसामर्थ्यात्; अतस्तेन प्रणयनमवश्यं कार्यम्; तेन चेत् प्रणयनं क्रियते कृतत्वात् प्रणयनस्य तेनैव संयवनादिकार्यसिद्ध रर्थाच्चमसो निवर्तते। नन्वत्रास्त्वेककार्यत्वान्निवृत्तिः, दार्शन्तिके तु द्विचन्द्रज्ञानदोषज्ञानादौ कीदृश्येककार्यता ? उच्यते । एकस्मिन्नर्थे तथात्वातथात्वप्रदर्शनेन व्यापार एककार्यत्वम् । दोषज्ञानम् 'दुष्टं मे चक्षुः' इति ज्ञानम् दोषाणामयथार्थज्ञानजननद्वारेण द्विचन्द्रज्ञानप्रतिभासिनोऽर्थस्यातथात्वं ज्ञापयति, द्विचन्द्रज्ञान्तु