________________
आह्निकम् ] प्रमाणप्रकरणम्
२३७ अप्रामाण्यन्तूत्पत्तौ दोषापेक्षत्वात्, स्वनिश्चये बाधकप्रत्ययादिसापेक्षत्वात्, परत इत्युक्तमेव । तस्मात् पक्षत्रयस्यानुपपत्तेश्चतुर्थ एवायं पक्षः श्रेयान, प्रामाण्यं स्वतः, अप्रामाण्यं परत इति ।
ननु चोत्पत्तिवेलायां न विशेषोऽवधार्यते।
प्रमाणेतरयोस्तेन बलाद् भवति संशयः॥ परिच्छित्तिमात्रं प्रमाणकार्यम्, तच्च यथार्थेतरप्रमितिसाधारणं रूपम्, साधारणधर्मग्रहणञ्च संशयकारणमिति प्रसिद्धः पन्थाः । एवं च स्थिते
प्रमाणान्तरसंवादविसंवादौ विना कथम् ।
प्रमाणेतरनिर्णीतिरतश्च परतो द्वयम् । तदेतदचतुरस्रम् । सत्यम्, परिच्छित्तिरेव प्रमाणकार्यम्, सा पुनरुपजायमानैव 10 न संदेहादिदूषिततनुरुपलभ्यते इत्यौगिकं प्रामाण्यमेव सा भजते । अर्थपरिच्छेदाच्च प्रवर्त्तमानः प्रमाता प्रमाणेनैव प्रवत्तितो भवति न संशयात् प्रवृत्तः । स्थितिश्चैवमौत्सगिके प्रामाण्ये, यत्र तस्थापवादः क्वचिद् भवति तत्राप्रामाण्यम् । अप्रामाण्ये चावश्यम्भावी अपवादः । द्विविध एव तदपवादः, बाधकप्रत्ययः, कारणदोषज्ञानञ्च । तदुक्तं भाष्यकृता 'यत्र च दुष्टं करणं यत्र च मिथ्येति प्रत्ययः स 15 एवासमीचीनः प्रत्ययो नान्यः' इति । वात्तिककारोऽप्याह
तस्माद् बोधात्मकत्वेन प्राप्ता बुद्धेः प्रमाणता।
अर्थान्यथात्वहेतूत्थदोषज्ञानादपोद्यते ॥ इति तत्र बाधकज्ञानं पूर्वज्ञानोपमर्दद्वारेणैव तस्मिन् विषये जायते इति समानविषयत्वात स्पष्टमेव बाधकम्, कारणदोषज्ञानन्तु भिन्नविषयमपि कार्यक्या बाधकतां 20 प्रतिपद्यते । यथा 'चमसेनापः प्रणयन्तीति दर्शपूर्णमासाङ्गत्वात् ऋत्वर्थश्चमसः।
• अर्थान्यथात्वेति । अर्थान्यथात्वाज्ञानात् 'शुक्तिकेयं न रजतम्' इत्यादौ, हेतूत्यदोषज्ञानात् कारणदोषज्ञानाद् द्विचन्द्रज्ञानादौ।
___ चमसेनापः प्रणयन्तीति । चमसेन यज्ञपात्रविशेषेण अपः प्रणयन्ति विशिष्टेन मन्त्रेण प्राङ् नयन्ति, गार्हपत्यदेशादाहवनीयदेशं नयन्ति । पिष्टसंयवनाद्यर्थं ताभिः संयुते पिण्डीकृते पिष्टेः पुरोडाशनिर्वृत्तिद्वारेणाग्नेयोऽष्टाकपालो भवतीति प्रधानयागनिर्वृत्तः क्रतूपकारकत्वात् क्रत्वर्थश्चमसः ।
।