________________
न्यायमञ्जयां
[ तृतीयम् सति सुखमेव प्रवृत्त्यादिकं व्यवहारमशङ्कितकालुष्यः करिष्यतीति न सर्वात्मना वैयर्थ्यमिति । उच्यते । विषमोऽयं दृष्टान्तः।
तज्जातीयतया बीजं शक्यते यदि वेदितुम् । तत्र तन्निश्चयाद् युक्तं निर्विशङ्कं प्रवर्तनम् ॥ ज्ञाने तथाविधत्वन्तु बोधरूपाविशेषतः। कार्याद वा कारणाद् वापि ज्ञातव्यं न स्वरूपतः ॥ इति । कारणानां परोक्षत्वान्न तद्वारा तदा गतिः । कार्यात्तु नाप्रवृत्तस्य भवतीत्युपणितम् ॥ तस्माद् वैयर्थ्यचोद्यस्य नायं परिहतिक्रमः । एवञ्चार्थक्रियाज्ञानात् कीदृक् प्रामाण्यनिश्चयः ॥ समर्थकारणज्ञानाद् योऽपि प्रामाण्यनिश्चयम् ।
ब्रूते सोऽपि कृतोद्वाहस्तत्र लग्नं परीक्षते। किलातिविकसितकुसुममकरन्दपानमुदितमधुकरकुले कस्मिंश्चिदुद्याने वाद्यमानायां वीणायां निरन्तरलतासन्तानान्तरितवपुषि विदूरादनवलोक्यमाने 15 वादके वीणाध्वनिसंविदि रोलम्बनादसंदेहदूषितायां तदभिमुखमेव प्रतिष्ठमानः
श्रोता परिवादके दर्शनपथमवतीर्णे स्वरानुकूलकारणनिश्चयात् तत्प्रतीतौ संशयनिवृत्तः प्रामाण्यं निश्चिनोतीत्येष समर्थकारणज्ञानकृतः प्रामाण्यनिश्चयः।
तत्रापि नाप्रवृत्तस्य हेतुसामर्थ्यदर्शनम् । एवमेव प्रवृत्तौ तु निश्चितेनापि तेन किम् ॥ तन्निश्चयात् प्रवृत्तौ वा पुनरन्योन्यसंश्रयम् ।
तन्निश्चयात् प्रवृत्तिः स्यात् प्रवृत्तेस्तद्विनिश्चयः ॥ तदेवं न कुतश्चिदपि प्रामाण्यनिश्चयः चक्रकेतरेतराश्रयानवस्थावैयदिदूषणातीतस्थितिरस्तीति । अतः प्रामाण्यनिश्चयेऽपि न किञ्चिदपेक्षते प्रमाणम् ।
ततश्चोत्पत्तौ स्वकार्यकरणे स्वप्रामाण्यनिश्चये च निरपेक्षत्वादपेक्षात्रयरहितत्वात् 25 स्वतः प्रामाण्यमिति सिद्धम् । तदुक्तम्
स्वतः सर्वप्रमाणानां प्रामाण्यमिति गृह्यताम् । न हि स्वतोऽसती शक्तिः कर्तुमन्येन पार्यते ॥