________________
२३५
आह्निकम् ।
प्रमाणप्रकरणम् अथान्यविषयज्ञानमप्यस्य संवाद उच्यते ? तदयुक्तम्, अदर्शनात्, न हि स्तम्भज्ञानं कुम्भज्ञानस्य संवादः ।
अथार्थक्रियाज्ञानसंवादात् प्रथमस्य प्रवर्तकस्य ज्ञानस्य प्रामाण्यमिष्यते । तदपि ह्यनवसितप्रामाण्यं कथमादिमस्य प्रामाण्यमवगमयेत ? कश्चार्थक्रियाज्ञानस्य पूर्वस्माद्विशेषो यदेतदायत्तस्तस्य प्रामाण्याधिगमः? अर्थक्रियाज्ञानत्वमेव विशेष इति 5 चेत् किल सलिलज्ञानमाद्यमविद्यमानेऽपि पयसि पूषदीधितिषु दृष्टमिति न भवति विस्रम्भभूमिः, इदं पुनरर्थक्रियासंवेदनमम्बुमध्यवत्तिनः पानावगाहनादिविषयमपोत्यनवधारितव्यभिचारतया तत्प्रामाण्यनिश्चयाय कल्पत इति । तदसत् । स्वप्ने पानावगाहनस्यापि व्यभिचारोपलब्धः। किञ्च चरमधातुविसर्गोऽपि स्वप्ने सीमन्तिनीमन्तरेण भवतीति महानेष व्यभिचारः।
अथ रागोद्रेकनिमित्तत्वेन, पित्तादिधातुविकृतिनिवन्धनत्वेन वा तद्विसर्गस्य न स्वसाधनव्यभिचार इत्युच्यते, तदसमञ्जसम् । असकृदनुभूतयुवतिपरिरम्भाद्यन्वयव्यतिरेकानुविधायित्वेन तत्कार्यत्वावधारणात् ।
तस्मादर्थक्रियाज्ञानव्यभिचारावधारणात् । तत्प्रामाण्यपरीक्षायामनवस्था न शाम्यति ॥ अथ वाप्तफलत्वेन किं तत् प्रामाण्यचिन्तया।
न चेदमर्थक्रियाज्ञानमप्रवृत्तस्य पुंसः समुद्भवति । तत्र प्रामाण्यावधारणपूर्विकायां प्रवृत्तौ कारणगुणनिश्चेयप्रामाण्यचर्चाबद्धचक्रकक्रकचचोद्यप्रसङ्गस्तदवस्थ एव । अनिश्चितप्रामाण्यस्य तु प्रवृत्तौ पश्चात्तन्निर्णयो भवन्नपि कृतक्षौरस्य नक्षत्रपरीक्षावदफल एवेत्युक्तम् ।
20 तत्रतत्स्याद, द्विविधा हि प्रवृत्तिराद्या चाभ्यासिको च। तत्राद्या यथा विनिहितसलिलावसिक्तमसृणमृदि शरावे शाल्यादिबीजशक्तिपरीक्षणाय कतिपयबीजकणवापरूपा । ततस्तत्र तेषामकुरकरणकौशलमविकलमवलोकयन्तः कोनाशा निःशङ्कं केदारेषु तानि बीजान्यावपन्तीति सेयमाभ्यासिकी प्रवृत्तिः । एवमिहापि प्रथमपरीक्षितप्रमाणभावादेव ज्ञानात् कुतश्चित् कश्चिद् विपश्चिदपि । व्यवहरंस्तद्व्यवहारपरस्तत्तत्फलज्ञाने तस्य प्रामाण्यमवगच्छन् पुनस्तथाविधे जाते