________________
-
२३४
न्यायमञ्जा
[तृतीयम्
निश्चयो भवेद, बाधकाभावज्ञानाद् वा, संवादाद वा ?
न तावत् कारणगुणज्ञानात् कारणगुणानामिदानीमेव निरस्तत्वात् । अपि च न कारकगुणज्ञानमिन्द्रियकारणकम्, अतीन्द्रियकारकाधिकरणत्वेन परोक्षत्वाद् गुणानाम्, अपि तूपलब्ध्याख्यकार्यपरिशुद्धिसमधिगम्यगुणस्वरूपम्, अप्रवृत्तस्य च प्रमातुन कार्यपरिशुद्धिर्भवति तन्नदानी प्रामाण्यनिश्चयपूर्विका प्रवृत्तिभवेत् । अन्यथा वा, अनिश्चितप्रामाण्यादेव ज्ञानात् प्रवृत्तिसिद्धौ किं पश्चात्तनिश्चयेन प्रयोजनम् ? निश्चितप्रामाण्यात्तु प्रवृत्तौ दुरतिक्रमश्चक्रकक्रकचपातः, प्रवृत्तौ सत्यां कार्यपरिशुद्धिग्रहणं कार्यपरिशुद्धिग्रहणात् कारणगुणावगतिः, कारणगुणावगतेः प्रामाण्यनिश्चयः। प्रामाण्यनिश्चयात् प्रवृत्तिरिति ?
नापि बाधकामावपरिच्छेदात् प्रामाण्यनिश्चयः। स हि तात्कालिको वा स्यात कालान्तरभावी वा ?
तात्कालिको न पर्याप्तः प्रामाण्यपरिनिश्चये । कूटकार्षापणादौ किञ्चित्कालमनुत्पन्नबाधकेऽपि कालान्तरे तदुत्पाददर्शनात् ।
सर्वथा तदभावस्तु नासर्वज्ञस्य गोचरः॥ ___अथ संवादात् प्रामाण्य निश्चय उच्यते ? तह्यच्यतां कोऽयं संवादो नाम । किमुत्तरं तद्विषयं ज्ञानमात्रम्, उतार्थान्तरज्ञानम्, आहोस्विदर्थक्रियाज्ञान मिति । आद्ये पक्षे कः पूर्वोत्तरज्ञानयोविशेषो यदुत्तरज्ञानसंवादात पूर्व पूर्व ज्ञानं प्रामाण्यमश्नुवीत।
अपि चोत्तरसंवादात् पूर्वपूर्वप्रमाणताम् । वदन्तो नाधिगच्छेयुरन्तं युगशतैरपि ॥ सुदूरमपि गत्वा तु प्रामाण्यं यदि कस्यचित् । स्वतं एवाभिधीयेत को द्वेषः प्रथमं प्रति ॥
यदाह
कस्यचित्तु यदीष्येत स्वत एव प्रमाणता। प्रथमस्य तथाभावे विद्वेषः किं निबन्धन इति ॥
चक्रकेति त्रियन्त्र्यादीनां(?) परस्परसापेक्षाणां चक्रवद् भ्रमतां चक्रकव्यपदेशः ।