________________
२३३
आह्निकम् ]
प्रमाणप्रकरणम् 'अयथार्थोपलब्धौ च दुष्टकारककार्यत्वेन सिद्धायामिदानीं तृतीयकार्याभावात् यथार्थोपलब्धिः स्वरूपावस्थितेभ्य एव कारकेभ्योऽवकल्पत इति न गुणकल्पनाय प्रभवति । अनुमाने च यैव पक्षधर्मान्वयादिसामग्री ज्ञानस्य जनिका सैव प्रामाण्यकारणत्वेन दृष्टा । न च स्वरूपस्थितानि कारणानि कार्यजन्मन्युदासत एव, येन यथार्थोपलब्धिजनने तेषां गुणसहकारिता कल्प्यते इत्यतो न सन्ति कारणगुणाः । नर्मल्यव्यपदेशस्तु लोचनादेः काचकामलादिदोषापायनिबन्धन एव न स्वरूपातिरिक्तगुणकृतः । अञ्जनाद्युपयोगोऽपि दोषनिहरणायैव न गुणजन्मने ।
तस्मादवितथा संवित् स्वरूपस्थितहेतुजा। दोषाधिकैस्तु तैरेव जन्यते विपरीतधीः ॥ अत एवाप्रमाणत्वं परतोऽभ्युपगम्यते।
जन्मन्यपेक्षते दोषान् बाधकञ्च स्वनिश्चये ॥ तस्मान्न उत्पत्तौ गुणापेक्षं प्रामाण्यम्, नापि स्वकार्यकरणे किञ्चिदपेक्षते, अर्थप्रकाशनस्वभावस्यैव तस्य स्वहेतोरुत्पादात् । अर्थप्रकाशनमेव च प्रमाणकार्य प्रवृत्त्यादेः पुरुषेच्छानिबन्धनत्वात् ।
नैव वा जायते ज्ञानं जायते वा प्रकाशकम् ।
अर्थप्रकाशने किञ्चिन्न तूत्पन्नमपेक्षते ॥ तथा चोक्तम्
मृद्दण्डचक्रसूत्रादि घटो जन्मन्यपेक्षते। उदकाहरणे त्वस्य तदपेक्षा न विद्यते ॥ इति ।
अथवा
सापेक्षत्वं घटस्यापि सलिलाहरणं प्रति । यत्किञ्चिदस्ति न त्वेवं प्रमाणस्योपपद्यते ॥ न च स्वग्रहणापेक्षं ज्ञानमर्थप्रकाशकम् ।
तस्मिन्ननवबुद्धेऽपि तत्सिद्धेश्चक्षुरादिवत् ॥ उक्तञ्च 'न ह्यज्ञातेऽर्थे कश्चिद् बुद्धिमुपलभते ज्ञाते त्वनुमानादवगच्छति' 25 इति । तस्मात् स्वकार्यकरणेऽपि न स्वग्रहणापेक्षं प्रमाणम्, नापि प्रामाण्यनिश्चये किञ्चिदपेक्षते अपेक्षणीयाभावात् । तथा ह्यस्य कारणगुणज्ञानाद् वा प्रामाण्य
३०