________________
२३२
न्यायमञ्जयां
[ तृतीयम्
एतेन तृतीयोऽपि पक्षः प्रत्युक्तः यदप्रामाण्यं स्वतः, प्रामाण्यं परत इति स्वतो ह्यप्रामाण्ये निश्चिते प्रवृत्तिन प्राप्नोतीति । किञ्च अप्रामाण्यमुत्पत्तो कारणदोषापेक्षम्, निश्चये च बाधकज्ञानापेक्षम्, तत्कथं स्वतो भवितुमर्हति। यच्च 'अप्रामाण्यमवस्तुत्वान्न स्यात् कारणदोषतः' इति कैश्चिदुच्यते तदपि यत्किञ्चित् । संशयविपर्ययात्मनोऽप्रामाण्यस्य वस्तुत्वात् तद्गतम् अप्रामाण्यमपि वस्त्वेवेति । परतस्तु प्रामाण्यं यथा नावकल्पते तथा विस्तरेणोच्यते। एवञ्चायं द्वयमपि परत इति द्वितीयपक्षप्रतिक्षेपोऽपि भविष्यति । अर्थतथात्वप्रकाशकं हि प्रमाणमित्युक्तम्, तस्य स्वप्रमेयाव्यभिचारित्वं नाम प्रामाण्यम् । अतश्च परापेक्षायां सत्यां परत इति
कथयितुमुचितम् । न चास्य परापेक्षा क्वचिद् विद्यते, सा हि भवन्ती उत्पत्तौ वा 10 स्यात्, स्वकार्यकरणे वा, प्रामाण्यनिश्चये वा। उत्पत्तौ कारकस्वरूपमात्रापेक्षा,
तदतिरिक्ततद्गतगुणापेक्षा वा ? कारकस्वरूपमात्रापेक्षायां सिद्धसाध्यत्वम्, असत्सु कारकेषु कार्यस्य ज्ञानस्यात्मलाभाभावात् कस्य प्रामाण्यमप्रामाण्यं वा चिन्त्यते? कारकातिरिक्ततदधिकरणगुणापेक्षणन्तु दुर्घटम्, अप्रामाणिकत्वेन कारणगुणानामाकाशकुशेशयसदृशवपुषामपेक्षणीयत्वाभावात् ।
न कारणगुणग्राहि प्रत्यक्षमुपपद्यते। चक्षुरादेः परोक्षत्वात् प्रत्यक्षास्तद्गुणाः कथम् ॥ लिङ्गञ्चादृष्टसम्बन्धं न तेषामनुमापकम् ।
यथार्थबुद्धिसिद्धिस्तु निर्दोषादेव कारकात् ॥
यदि हि यथार्थत्वायथार्थत्वरूपद्वयरहितं किञ्चिदुपलब्ध्याख्यं कार्य भवेत्ततः 20 कार्यत्रैविध्यात् कारणत्रैविध्यमवश्यमवसीयेत। यथार्थोपलब्धेर्गुणवत्कारकं कारकम्,
अयथार्थोपलब्धेर्दोषकलुषं कारकं कारकम्, उभयरूपरहितायास्तु तस्याः स्वरूपावस्थितमेव कारकं कारकमिति, न त्वेवमस्ति । द्विविधंव खल्वियमुपलब्धिः यथार्थत्वायथार्थत्वभेदेन । तत्र अयथार्थोपलब्धिस्तावद् दुष्टकारककार्यैव दृष्टा।
दृष्टः कुटिलकुम्भादिसम्भवो दुष्टकारणात् ।
तथा मानान्तरमितात् तिमिरादेद्विचन्द्रधीः। अप्रामाण्यमवस्तुत्वादिति । अप्रामाण्यं धर्मि, कारणदोषतो न स्यादिति साध्यम, अवस्तुत्वादिति हेतुः । 'वस्तुत्वात्तु गुणैस्तेषां प्रामाण्यमुपजन्यते' इत्युत्तरमर्धम् ।
२