________________
प्रमाणप्रकरणम्
आह्निकम् ]
२३१ दुष्टमिति । अदृष्ट्वापि वस्तु यदुपदिश्यते सोऽपि बुद्धिदोष एव । तस्मात् पुरुषगतगुणदोषान्वयव्यतिरेकानुविधायित्वात् तत्कृते एव शाब्दयथार्थत्वायथार्थत्वे । तत्तदुक्तं 'तथ्यमपि भवति वितथमपि भवति' इति ।
तेनाभिधातृदौरात्म्यकृतेयमयथार्थता । प्रत्ययस्येति शब्दानां नार्थासंस्पर्शिता स्वतः॥ या तु जात्यादिशब्दार्थपराकरणवर्मना।"
अर्थासंस्पशिता प्रोक्ता सा पुरस्तान् निषेत्स्यते ॥ प्रामाण्यस्य स्वतस्त्वपरतस्त्वविचारोपक्रमः
प्रमाणत्वन्तु शब्दस्य कथमित्यत्र वस्तुनि । जैमिनीयरयं तावत् पीठबन्धो विधीयते ॥ प्रामाण्यमप्रामाण्यं वा सर्वविज्ञानगोचरः।
स्वतो वा परतो वेति प्रथमं प्रविविच्यताम् ॥ ननु शब्दप्रामाण्यचिन्तावसरे सकलप्रमाणप्रामाण्यविचारस्य कः प्रसङ्गः? न स्वातन्त्र्येण परीक्षणमपि तु तदर्थमेव समानमार्गत्वात्,
अथान्येषां स्वतः परतो वा प्रामाण्यम्, तथा शब्दस्यापि भविष्यतीति न हि । तस्य स्वरूपमिव प्रामाण्यमपि तद् विसदृशमिति। तदुच्यते, कि विज्ञानानां प्रामाण्यमप्रामाण्यञ्चेति द्वयमपि स्वतः, उत उभयमपि परतः, आहोस्विद् अप्रामाण्यं स्वतः, प्रामाण्यन्तु परतः, उतस्वित्प्रामाण्यं स्वतः, अप्रामाण्यन्तु परतः
in
इति,
प्रामाण्यं स्वत इति मीमांसकाः
तत्र द्वयमपि स्वत इति तावदसाम्प्रतम्, प्रवृत्तस्य विसंवाददर्शनात् । यदि हि प्रामाण्यमितरद् वा स्वत एव ज्ञानस्य गम्यते तहि शुक्तौ रजतज्ञानं प्रमाणतया वा प्रतिपन्नम् अन्यथा वा ?
प्रमाणत्वपरिच्छित्तौ विसंवदति तत्कथम् ।
अप्रामाण्यगृहीतौ वा तस्मिन् कस्मात् प्रवर्तते ॥ कदाचिदज्ञानमोहाद्यपि भवति । तत्तथ्यमपि भवतीति । पौरुषेयं वच इति प्रकृतम्।
पीठबन्धः भूमिकारचनम्।
25