________________
न्यायमञ्जयां
[तृतीयम्
नन्वाप्तैरेवंविधवाक्याप्रयोगेऽपि सन्दिग्धो व्यतिरेकः किं शब्दाभावादयथार्थप्रत्ययानुत्पादः, उत वक्तृदोषाभावादिति ? नैतदेवम्
अनुच्चरितशब्दोऽपि पुरुषो विप्रलम्भकः ।
हस्तसंज्ञाद्युपायेन जनयत्येव विप्लवम् ॥ न च हस्तसंज्ञादिना शब्दानुमानं तत्कृतश्च विप्लव इति वक्तव्यम् । इत्थमप्रतीतेः। उत्पन्ने च क्वचिन्नद्यादिवाक्याद् विज्ञाने तरङ्गिणीतीरमनुसरन् अनासादितफलः प्रवृत्तबाधकप्रत्ययः पुरुषमेवाधिक्षिपति ‘धिक हा तेन दुरात्मना विप्रलब्धो ऽस्मीति न शब्दम् । प्राप्तफलश्च पुमांसमेव श्लाघते 'साधु साधुना तेनोपदिष्टम'।
इत्यतः पुरुषदोषान्वयानुविधानात् तदभावकृत एव आप्तेषु तूष्णीमासीनेषु 10 विभ्रमानुत्पाद इति न सन्दिग्धो व्यतिरेकः । पुरुषदोषकृत एव शब्दाद् विप्लवो न स्वरूपनिबन्धनः।
ननु पुरुषदोषास्तत्र किं कुयुः ? पुरुषस्य हि गुणवता दोषवता वा शब्दोच्चारणमात्रे एव व्यापारः । ततः परन्तु कार्य शब्दायत्तमेवेति तत्स्वरूपकृत एवायं
विभ्रमः । हन्त तर्हि वक्तरि गुणवति सति सरितस्तीरे फलानि सन्तोति सम्यक15 प्रत्ययेऽपि शब्दस्यैव व्यापारात् पुरुषस्योच्चारणमात्रे चरितार्थत्वान्नकान्ततः शब्दस्यार्थासंस्पशित्वमेव स्वभावः। युक्तञ्चैतदेव यद् दीपवत् प्रकाशत्वमात्रमेव शब्दस्य स्वरूपं न यथार्थत्वम् अयथार्थत्वं वा, विपरीतेऽप्यर्थे दीपस्य प्रकाशत्वानतिवृत्तेः । अयन्तु विशेषः, प्रदीपे व्युत्पत्तिनिरपेक्षमेव प्रकाशत्वं शब्दे तु व्युत्पत्त्यपेक्षमिति ।
प्रकाशात्मनस्तु शब्दस्य वक्तगुणदोषाधीने यथार्थेतरत्वे । अत एवाङ्गुलिशिखरा20 धिकरणकरेणुशतवचसि बाधितेऽपि पुनः पुनरुच्चार्यमाणे भवति विभ्रमः, प्रकाशकत्वतद्रूपानपायात् । न त्वेष शब्दस्य दोषः।
पदार्थानान्तु संसर्गमसमीक्ष्य प्रजल्पतः ।
वक्तुरेव प्रमादोऽयं न शब्दोऽत्रापराध्यति ॥
तदुक्तम्, प्रमाणान्तरदर्शनमत्र बाध्यते न पुनर्हस्तियूथशतमिति शाब्दो25 ऽन्वयः, पुरुषो हि स्वदर्शनं शब्देन परेषां प्रकाशयति। तत्र तद्दर्शनञ्चेद् दुष्टम्, दुष्टः शाब्दः प्रत्ययः, अदुष्टं चेददुष्ट इति । गुणवतः पुरुषस्यादुष्टं दर्शनं भवति दोषवतो
तदुक्तमिति । प्राभाकरं वचो ज्ञापकत्वेनाह 'प्रमाणान्तरदर्शनम्' इति । वक्ता यद्वशेन परस्मै अर्थ प्रतिपादयति तदस्य प्रमाणान्तरदर्शनशब्देन विवक्षितम्, तच्च