________________
आह्निकम् ]
प्रमाणप्रकरणम्
२२९
पाटवाभावात् । असत्यपि च पुरुषहृदयकालुष्ये यथा प्रयुज्यमानान्यगुल्यग्रादिवाक्यानि विप्लवमावहन्त्येवेति शब्दानामेवैष स्वभावो न वक्तृदोषाणाम् । अपि च न चक्षुरादिबाधकज्ञानोदये सति न विरमति विपरीतवेदनजन्मनः शुक्तिकारजतादिबुद्धिषु विभ्रमस्यापायदर्शनात् । शब्दस्तु शतकृत्वोऽपि बाध्यमानो 5 यथैवोच्चरितः 'करशाखादिशिखरे करेणुशतमास्ते' इति तदैव तथाभूतं भूयोऽपि विकल्पमयथार्थमुत्पादयत्येवेति, विकल्पाधीनजन्मत्वाच्छब्दानामेवेदं रूपं यदर्थासंस्पशित्वं नामेति । तदुक्तम् ।
विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः ।
तेषामन्योन्यसम्बन्धे नार्थं शब्दाः स्पृशन्त्यमी ॥ इति । अत्राभिधीयते भवेदेतदेवं यदि न कदाचिदपि यथार्थं शब्दः प्रत्ययमुप- . जनयेत् । अर्थसंस्पशित्वमेवास्य स्वभाव इत्यवगम्यते, भवति तु गुणवत्पुरुषभाषितान्नधास्तीरे फलानि सन्तीति वाक्यादतिरस्कृतबाह्यार्थो यथार्थः प्रत्ययः, ततः प्रवृत्तस्य तदर्थप्राप्तेः। न चेयमर्थप्राप्तिरर्थस्पर्शशून्यादपि शब्दविकल्पात् पारम्पर्येण मणिप्रभामणिबुद्धिवदवकल्पते इत्युपरिष्टाद् वक्ष्यामः।
ननु गुणवद्वक्तृकादगुल्यादिवाक्याद् दृष्ट एवासमीचीनः प्रत्ययः ? मैवम् गुणवतामेवंविधवाक्योच्चारणचापलाभावात्।
यत्तु आप्तोऽपि कञ्चिदनुशास्ति मा भवानभूतार्थ वाक्यं वादीः 'अङ्गुलिकोटौ करिघटाशतमास्ते' इति, तत्रेतिकरणावच्छिन्नस्य दृष्टान्ततया शब्दपरत्वेनोपादानात् प्रतिषेधंकवाक्यतया यथार्थत्वमेव। अर्थपरत्वे तु निषेधवाक्यंकवाक्यतव 20 न स्यादिति । तस्मादाप्तवाक्यानामयथार्थत्वाभावान्न स्वतोऽर्थासंस्पशिनः शब्दाः पुरुषदोषानुषङ्गकृत एवायं विप्लवः ।
विकल्पयोनयः शब्दा इति। 'अमुमर्थं प्रतिपादयामि' इत्येवमात्मकविकल्पोपारूढार्थप्रतिपादनाय शब्दप्रयोगात् शब्दाच्च 'अयमर्थोऽवगतः' इत्येवंरूपविकल्पोदयात् ।
निषेधवाक्यैकवाक्यतैव न स्यादिति । अननुभूतार्थं न प्रयोक्तव्यं यथा किमिति शब्दपरत्वे भवत्येकवाक्यता, अर्थपरत्वे तु यथा किमित्यपेक्षायामगुल्यग्रहस्तियूथशतयोराधाराधेयसम्बन्धरूपोऽर्थो न सङ्गच्छते ।
25