________________
२२८
न्यायमञ्जां
[तृतीयम्
10
कीदृशश्चार्थवादानां विरुद्धार्थाभिधायिनाम् । मन्त्राणां नामधेयादिपदानां वा समन्वयः ॥ सिद्धकार्योपदेशाच्च वेदे संशेरते जनाः। किमस्य कार्ये प्रामाण्यं सिद्धेऽर्थे वोभयत्र वा ॥ तेन वेदप्रमाणत्वं विषमे पथि वर्तते ।
जीविकोपायबुद्धया वा श्रद्धया वाभ्युपेयताम् ॥ तत्र शङ्कापरिहारः
अत्राभिधीयते । सर्व एवैते दोषा यथाक्रमं परिहरिष्यन्ते इत्यलं समाश्वासेन सुप्रतिष्ठमेव वेदप्रामाण्यमवगच्छत्वायुष्मान् ।
नन्वर्थासंस्पशित्वमेव तावत् कथं परिह्रियते? न हि बाह्येऽर्थे शब्दाः प्रतीतिमादधति ते हि दुर्लभवस्तुसम्पर्कविकल्पमात्राधीनजन्मानः स्वमहिमानमनुवर्तमानास्तिरस्कृतबाह्यार्थसमन्वयान् विकल्पप्रायान् प्रत्ययानुत्पादयन्तो दृश्यन्ते अङ्गुल्यग्रे हस्थियूथशतमास्ते इति, स्वभाव एव शब्दानामर्थासंस्पशित्वम् । चक्षुरादी
नामप्यलोककचकूर्चकादिप्रतीतिकारणत्वमस्ति न च तेषामर्थासंस्पशित्वमिति चेत्, 115 तेषां हि तिमिरादिदोषकलुषितवपुषां तथाविधविभ्रमकारणत्वम्, न तुस्वमहिम्नव। इहापि पुरुषदोषाणामेष महिमा न शब्दानामिति चेत्,
मैवम् । दोषवतापि पुरुषस्य मूकावेरनुच्चारितशब्दस्येदृशविप्लवोत्पादनविपर्ययः अन्त्येष्ट्याम् तत्र हि पात्रचयं विधायाह ‘स एष यज्ञायुधी यजमानोऽञ्जसा
स्वर्ग लोकं याति' इति, स्वर्गफलविपरीतस्य भस्मीभावस्योपलम्भात् । यजमानशरीरा203 वयवेषु यज्ञपात्राणां विशिष्टेन रूपेण विरचनं पात्रचयः । अर्थवादानाम् विरुद्धार्था
भिधायिनाम् । धूम एवाग्नेदिवा ददृशे नाचिः, अचिरेवाग्नेर्नक्तं ददृशे न धूमः' इत्यादीनाम् । मन्त्राणाम् च कीदृशोऽन्वयो विधायकत्वेनाभिधायकत्वेन वा। नामधेयादिपदानाम् उद्भिदादीनां किं गुणार्थत्वेन समन्वय उत कर्मनामधेयतयेति । जीविकोपायबुद्धयति । यथोक्तम्
अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्म मुण्डनम् । बुद्धिपौरुषहीनानां जीविकेति बृहस्पतिः ।। इति ।