________________
प्रमाणप्रकरणम्
२२७
5
आह्निकम् ]
अर्थो निरूप्यमाणश्च को वा शब्दस्य शक्यते । वक्तुं न जातिर्न व्यक्तिर्न तद्वान्नाम कश्चन ॥ सम्बन्धोऽप्यस्य नार्थेन नित्योऽस्ति समयोऽथ वा। शक्यः सन्नपि वा बोद्धमर्थे कथमतीन्द्रिये ॥ वाक्यार्थोऽपि न निर्णेतु पार्यते पारमार्थिकः। . नियोगभावनाभेदसंसर्गादिस्वभावकः ॥ तत्प्रतीत्यभ्युपायश्च किम्पदार्थः पदानि वा। वाक्यं वा व्यतिषक्तार्थ स्फोटो वेति न लक्ष्यते ॥ सिद्धायामपि तदबुद्धौ तस्या द्रढिमकारणम् । नित्यत्वमाप्तोक्तत्वं वा न सम्यगवतिष्ठते ॥ पदे नित्येऽपि वैदिक्यो रचनाः कर्तृ पूर्विकाः। नित्या वा कृतकत्वेऽपि कृताः केनेति दुर्गमम् ॥ कर्तास्ति स च निर्द्वन्द्वः स चैकः स च सर्ववित् । स च कारुणिको वेति प्रतिपत्तुं न शक्यते ॥ परस्परविरुद्धाश्च सन्ति भूयांस आगमाः । तेषां कस्येश्वरः कर्ता कस्य नेति न मन्महे ॥ वेदे दोषाश्च विद्यन्ते व्याघातः पुनरुक्तता।
फलस्यानुपलम्भश्च तथा.. फलविपर्ययः ॥ नियोगभावनाभेदेति । भेदः संसर्गो वा वाक्यार्थ इति वैयाकरणाः केचित् ।। आदिग्रहणाद् भेदसंसगौं वाक्यार्थ इत्यपि संगृहीतम्, तथा क्रिया वाक्यार्थ इत्यपि। 20 नियोगभावनावादिमते नियोगस्य भावनाया वा संसृष्टाया वाक्यात् प्रतीयमानत्वात् तयोरेवैकतरस्थ वाक्यार्थत्वम्, न संसर्गस्य भेदस्य वा तत्प्रतीत्युत्तरकालं प्रतीयमानस्य ।
व्यतिषक्तार्थमिति तदुक्तम् “व्यतिषक्ततोऽवगतेwतिषङ्गस्य" इति ।
परस्परविरुद्धाश्चेति । नाथवादाद्यागमा अशुचिलक्षणादिप्रतिपादका ईश्वरप्रणीततयाभिमताः केषाञ्चित्, तदपेक्षयेदमुक्तम् ।
व्याघातः यथा 'उदिते जुहोत्यनुदिते जुहोति' इत्यादौ। पुनरुक्तता यथा 'त्रिः प्रथमामन्वाह त्रिरुत्तमाम्' इति । सकृदुच्चारणेनैव कर्मस्वरूपप्रकाशसिद्धेः पुनरुच्चारणं पुनरुक्तम् । फलस्यानुपलम्भः कृतायामपि पुत्रकामेष्टावनन्तरं पुत्रस्यानुपलम्भात् ।