________________
२२६
10
20
न्यायमञ्जय
ततश्वेदाप्तवादन
सत्यत्वमनुमीयते ।
वाक्यार्थ प्रत्ययस्यात्र कथं स्यादनुमानता ॥ जन्म तुल्यं हि बुद्धीनामाप्तानाप्तगिरां श्रुतौ । जन्माधिकोपयोगी च नानुमायां त्रिलक्षण इति ॥
न च प्रामाण्यनिश्चयाद्विना प्रतिभामात्रं तदिति वक्तव्यम्, शब्दार्थ सम्प्रत्ययस्यानुभवसिद्धत्वात्,
15 शब्दप्रामाण्ये शङ्का
एतेन विवक्षाविषयत्वमपि प्रत्युक्तम् । न हि विवक्षा नाम शब्दस्य वाच्यो विषयः किन्त्वर्थ एव तथा ।
विवक्षायां हि शब्दस्य लिङ्गत्वमिह दृश्यते । आकाश इव कार्यत्वान्न वाचकतया पुनः ॥ शब्दादुच्चरिताच्च वाच्यविषया तावत् समुत्पद्यते संवित्तिस्तदनन्तरन्तु गमयेत् कामं विवक्षामसौ । अर्थोपग्रहवता तु नियमात् सिद्धैवमाजीविता तद्वाच्यार्थविशेषिता त्वविदिते नंषां तदर्थे भवेत् ॥
[ तृतीयम्
ननु सिद्धे प्रमाणत्वे भेदाभेदपरीक्षणम् । क्रियते न तु शब्दस्य प्रामाण्यमवकल्पते ॥ अर्थप्रतीतिजनकं प्रमाणमिति वर्णितम् । विकल्पमात्रमूलत्वान्नार्थं शब्दाः स्पृशन्त्यमी ॥
न हि यद्धूमादग्नेरनुमानम्, यच्च कदाचिदनित्यत्वात् कृतकत्वस्य, विषाणित्वाच्चतुष्पादत्वस्य तदनुमानतया परस्परं भिद्यते ।
जन्माधिकोपयोगीति । अनुमायामनुमाने यस्त्रिलक्षणो हेतुः स न जन्माधिकोपयोगी, ज्ञानजन्मनो ज्ञानोत्पादादधिके कार्ये न व्याप्रियते । ज्ञानजन्मन्येव तस्य व्यापार इत्यर्थः । त्रिलक्षणशब्देनात्र हेतुरुक्तः ।
अर्थोपग्रहवजिता नियतार्थविषयत्वहीना । नियमात् अवश्यम्भावात्, अवश्यं हि जीवन् विवक्षति ।