________________
प्रमाणप्रकरणम्
आह्निकम् ]
२२५ तत्राप्येवं समयः क्रियते एतस्माच्छब्दादयमर्थस्त्वया प्रतिपत्तव्य इति । तत्रापि प्रतीतिरेवाविनाभावो नाम सम्बन्धः, अन्यश्च शब्दार्थयोः समयापरनामा वाच्यवाचकभावः सम्बन्धः कारणत्वेन निर्दिष्टो द्रष्टव्यः। तस्मादन्यो लिङ्गलिङ्गिनोरविनाभावाद वाच्यवाचकभावः सम्बन्धः प्रतीत्यङ्गम् । एवंविधविषयभेदाद सामग्रीभेदाच्च प्रत्यक्षवदनुमानादन्यः शब्द इति सिद्धम् ।
यत्तु पूर्ववर्णक्रमापेक्षणादिवलक्षण्यमाशङ्कय दूषितं कस्तत्र फल्गुप्राये निर्बन्धः।
यत्पुनरभिहितम् 'आप्तवादाविसंवादसामान्यादनुमानता' इति तदतीव सुभाषितम्, विषयभेदात्, आप्तवादत्वहेतुना हि शब्दार्थबुद्धेः प्रामाण्यं साध्यते न तु संव जन्यते, यदाह
अन्यदेव हि सत्यत्वमाप्तवादत्वहेतुकम् । वाक्यार्थश्चान्य एवेह ज्ञातः पूर्वतरञ्च सः॥
तत्रापि प्रतीतिरेवेति । यद्यपि पूर्वमर्थमन्येन ततः प्रतिपन्नं ज्ञात्वा स्वयं न प्रतिपद्यतेऽपि तु परप्रतीति विनैव स्वयमेव प्रतिपद्यते तथापि परेण वक्त्रा 'अस्माच्छब्दादयमों भवता प्रतिपत्तव्यः' इति वदता 'अस्यार्थस्यास्माच्छब्दात् प्रतीतिः' 'अयं 15 शब्द एतदर्थवाचकः' इति तदर्थप्रतीतिरेव तस्य शब्दस्य वाचकत्वे कारणत्वेन निर्दिष्टा । अतस्तत्रापि तादृशाद् वाक्याद् ‘यत एतस्यास्माच्छब्दादेतदर्थप्रतीतिरस्ति एतदर्थवाचकोऽयमतोऽहम यस्मादमुमर्थं प्रतिपद्ये' इति भवत्यवगतिपूर्विकैवावगतिः। यत्तु पूर्ववर्णक्रमेति । यथाह भट्टः
पूर्वसंस्कारयुक्तान्त्यवर्णसंस्कारकल्पना । विवक्षादि च धूमादौ नास्तीत्येतेन भिन्नता ।। यैरुक्ता तत्र वैधय॑विकल्पसमजातिता। धूमानित्यविषाण्यादि विशेषान्न हि भिन्नता । त्रैलक्षण्यपरित्यागो यावन्न प्रतिपाद्यते। तावद्विशेषमात्रेण वदतो जातिता भवेत् ।।