SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २२४ न्यायमञ्जयां ['तृतीयम् बुद्धावुत्पन्नायामन्वयो गृह्यते अनुत्पन्नायां वा ? अनुत्पन्नायां तावत् स्वरूपासत्वातकुतोऽन्वयग्रहणम् ? उत्पन्नायान्त्वर्थबुद्धौ किमन्वयग्रहणेनेति नष्फल्यम् । तत्पूर्वकत्वे तु पूर्ववदितरेतराश्रयम् । एतेन व्यतिरेकग्रहणमपि व्याख्यातम् । । तन्वावापोद्वापद्वारेण शब्दार्थसम्बन्धे निश्चीयमाने उपयुज्यते एवान्वयव्यतिरेको, यथोक्तं 'तत्र योऽन्वेति यं शब्दमर्थस्तस्य भवेदसौ'इति । सत्यमेतत् । किन्तु समयबलेन सिद्धायामर्थबुद्धौ समयनियमावन्वयव्यतिरेको शब्देनान्वयव्यतिरेककृता च धूमादेरिव ततोऽर्थबुद्धिः । अपि च ... धूमादिभ्यः प्रतीतिश्च नैवावगतिपूर्विका । इहावगतिपूर्वैव शब्दादुत्पद्यते मतिः॥ स्थविरव्यवहारे हि बालः शब्दात् कुतश्चन । दृष्ट्वार्थमवगच्छन्तं स्वयमप्यवगच्छति ॥ 10 तत्पूर्वकत्वे त्विति । अन्वयग्रहणे सति अर्थबुद्धिः, अर्थबुद्धौ सत्यामन्वयग्रहणमिति। एतेन व्यतिरेकग्रहणमिति । (किम् ?) अर्थबुद्धावुत्पन्नायाम् 'यत्रेयमर्थर्बुद्धिर्नास्ति तत्र शब्दबुद्धिरपि नास्ति' इत्यादि । तत्र योऽन्वेति यं शब्दमिति । तथाहि यथा 'घट करोति' इत्यत्र कर्मशक्तिः प्रतीयते तथा घटशब्दापाये ‘पटं करोति' इत्यत्रापि प्रतीयमाना 'अम्'प्रत्ययवाच्यत्वमात्मनो निश्चाययति; एवं 'घटं करोति' इत्यत्र घटप्रातिपदिकार्थों योऽवगतः स सत्यप्यम्प्रयोगे 'पटं करोति' इत्यत्राप्रतीयमानः प्रकृत्यर्थ इति निश्चीयते। समयनियमार्थाविति । प्रकृतिप्रत्ययात्मकत्वाच्छब्दस्य कस्य कस्मिन्नंशे समयः कृत इत्ययमंशोऽस्य शब्दांशस्य वाच्योऽयमस्येति प्रागुक्ताभ्यामन्वयव्यतिरेकाभ्यां निश्चीयते । ... नवावगतिपूविकेति । न हि येन पूर्वं धूमादग्निरवगतः स एव धूमादग्नि प्रतिपद्यतेऽपि तु येनापि न प्रतिपन्नोऽग्निना सह भूयोदर्शनेन धूमस्य गृहीतः सम्बन्धः सोऽपि प्रतिपद्यत एव ततोऽग्निम् । शब्दस्तु येन तदर्थवाचकत्वेनावगतः स एव ततोऽर्थ प्रतिपद्यते नान्यः। 20
SR No.002345
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1982
Total Pages544
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy