________________
प्रमाणप्रकरणम्
माह्निकम् ]
२२१ हस्तसंज्ञादिलिङ्गेऽपि तथाभावस्य दर्शनात् । दृष्टान्तनिरपेक्षत्वमभ्यस्ते विषये समम् ॥ अनभ्यस्ते तु सम्बन्धस्मृतिसापेक्षता द्वयोः । अनेकप्रतिभोत्पत्तिहेतुत्वमपि विद्यते ॥ अस्पष्टलिङ्ग कस्मिश्चिदश्व इत्यादिशब्दवत् । स्फुटार्थानवसायाश्च प्रमाणाभासतो यथा। लिङ्ग तथैव शब्देऽपि नानार्थभ्रमकारिणि ॥ अपि च प्रतिभामात्रे शब्दाज्जातेऽपि कुत्रचित् । आप्तवादत्वलिङ्गन जन्यते निश्चिता मतिः ॥ अत एव हि मन्यन्ते शब्दस्यापि विपश्चितः। आप्तवादाविसंवादसामान्यादनुमानताम् ॥ किञ्च शब्दो विवक्षायामेव प्रामाण्यमश्नुते।
न बाह्ये व्यभिचारित्वात् तस्याञ्चैतस्य लिङ्गता ॥ शब्देऽनुमानतः पृथक् प्रामाण्यव्यवस्थापनम्
तत्राभिधीयते, द्विविधः शब्दः पदात्मा वाक्यात्मा चेति । तत्र वाक्यमनव- 15 गतसम्बन्धमेव वाक्यार्थमवगमयितुमलम्, अभिनवविरचितश्लोकश्रवणे सति पदसंस्कृतमतीनां तदर्थावगमनदर्शनात् । अतः सम्बन्धाधिगममूलप्रवृत्तिनानुमानेन तस्य कथं साम्यसम्भावना ? पदस्य तु सम्बन्धाधिगमसापेक्षत्वे सत्यपि सामग्रीभेदाद् विषयभेदाच्चानुमानाद् भिन्नत्वम् । विषयस्तावद् विसदृश एव पदलिङ्गयोः ।
हस्तसंज्ञादिलिङ्गऽपीति । यदेत्यम मुल्यस्तदेदं बोद्धव्यमिति । .
अश्व इत्यादिशब्दवदिति । अश्व इति घोटकाभिधायि प्रातिपदिकम् । आख्यातन्त श्वयतेः चङि सिपि “विभाषा धेट्श्व्योः ” इति श्वेः अङि 'श्वयतेरः' इत्यत्वेऽडागमे च कृते यत् सिद्धयति तद् वृंहितवांस्त्वमित्यर्थे ।
आप्तवादाविसंवादसामान्यादिति । यथा धूमसामान्यादग्निसामान्यनिश्चय एवमाप्तवादसामान्यादविसंवादित्वसामान्यनिश्चय इत्यर्थः । आप्तवादानां वा अविसंवादः सामान्य रूपम्, यो य आप्तवादः स सोऽविसंवादीत्यर्थः।