________________
२२०
न्यायमञ्जयां
[तृतीयम्
(स?) साक्षात्कृतधर्मेव धर्मस्येश्वरप्रत्यक्षगोचरत्वात्, चिख्यापयिषया प्रयुक्त इति कारुणिक एव भगवानिति वक्ष्यते । उपदेष्टा च वेदाद्यागमानां तत्प्रणीतत्वस्य समर्थयिष्यमाणत्वादिति ।
१ शब्दस्यानुमान एवान्तर्भावपक्षः
आह; आस्तां तावदेतद्, इदन्तु चिन्त्यतां किमर्थमिदं पुनः शब्दस्य पृथग्लक्षणमुपवर्ण्यते ?
शब्दस्य खलु पश्यामो नानुमानाद् विभिन्नताम् । अतस्तल्लक्षणाक्षेपान्न वाच्यं लक्षणान्तरम् ॥ परोक्षविषयत्वं हि तुल्यं तावद् द्वयोरपि । सामान्य विषयत्वञ्च सम्बन्धापेक्षणाद् द्वयोः॥ अगृहीतेऽपि सम्बन्धे नकस्यापि प्रवर्तनम् । सम्बन्धश्च विशेषाणामानन्त्यादतिदुर्गमः ॥ यथा प्रत्यक्षतो धूमं दृष्ट्वाग्निरनुमीयते । तथैव शब्दमाकर्ण्य तदर्थोऽप्यवगम्यते ॥ अन्वयव्यतिरेको च भवतोऽत्रापि लिङ्गवत् । यो यत्र दृश्यते शब्दः स तस्यार्थस्य वाचकः ॥ पक्षधर्मत्वमप्यस्ति शब्द एव यतोऽर्थवान् । प्रकल्पयिष्यते पक्षो धूमो दहनवानिव । तत्र धूमत्वसामान्यं तद्वदत्रापि वक्ष्यते ॥ एवं विषयसामग्रीसाम्यादेकत्वनिश्चये । न विलक्षणतामात्रं किञ्चिदन्यत्वकारणम् ॥ पूर्ववर्णक्रमोद्भूतसंस्कारसहकारिता। पुरुषापेक्षवृत्तित्वं विवक्षानुसृतिक्रमः। इत्यादिना विशेषेण न प्रमाणान्तरं भवेत् ॥ कार्यकारणधर्मादिविशेषोऽत्रापि नास्ति किम् । यथेष्टविनियोज्यत्वमपि नान्यत्वकारणम् ॥