________________
आह्निकम् ]
प्रमाणप्रकरणम् ननु प्रतीतेः संविदात्मकत्वान्नाभिधानक्रिया नाम काचिदपूर्वा संविदन्याः बिद्यते तत्करणस्य चोपदेशतायामतिप्रसङ्ग इत्युक्तम्। सत्यम् । संविदात्मैव सर्वक प्रतीतिः, सा चक्षुरादिकरणिका प्रत्यक्षफलम्, श्रोत्राग्राह्यकरणिकानुमानफलम्। श्रोत्रग्राह्यकरणिका शब्दफलम् । न हि दृश्यतेऽनुमीयतेऽभिधीयते इति पर्यायशब्दः । तत्प्रतीतिविशेषजनने च शब्दस्योपदेशत्वमुच्यते, विवक्षादौ तु तस्थ । लिङ्गत्वमेवेत्यलं प्रसङ्गेन। आप्तपदार्थविचारः
आप्तो भाष्यकृता व्याख्यातः आप्तः खलु साक्षास्कृतधर्मा, यथादृष्टस्यार्थस्य चिख्यापयिषया प्रयुक्त उपदेष्टा चेति।
धर्म इत्युपदेष्टव्यः कश्चिदर्थी विवक्षितः।।
साक्षात्करणमेलस्य यथार्थ उपलम्भनम् ॥ न तु प्रत्यक्षेणैव' ग्रहणमिति नियमः, अनुमानादिनिश्चितार्थोपदेशिनोऽप्याप्तत्वानपायात् ।
चिख्यापयिषया युक्त इत्युक्ता वीतरागता।
उपदेष्टेत्यनेनोक्तं प्रतिपादनकौशलम् ।। वीतरागोऽपि मूकादिरुपदेष्टुमशक्तः किं कुर्यात् ? वक्तुं शक्तोऽपि साक्षात्कृतधर्माप्यवीतरागो न वक्ति तूष्णीमास्ते इति।
तस्य च प्रतिपाद्येऽर्थे वीतरागत्वमिष्यते। सर्वथा वीतरागस्तु. पुरुषः कुत्र लभ्यते ॥ ऋष्यार्यम्लेच्छसामान्यं वक्तव्यं चाप्तलक्षणम्।।
एवं हि लोकेऽप्याप्तोक्तया व्यवहारो न नङ्क्षयति ॥ येऽप्याप्ति दोषक्षयमाचक्षते तैरपि दोषक्षयः प्रतिपाद्यार्थेष्वेव वर्णनीयोऽन्यथा लोके दृश्यमानस्याप्तोक्तिनिबन्धस्य व्यवहारस्य निह्नवः स्यात् । अथ वा वेदप्रामाण्यसिद्धयर्थत्वाच्छास्त्रस्य तत्प्रणेतुराप्तस्येश्वरस्य यथाश्रुतमेवेदं लक्षणं
आप्ति दोषक्षयमाचक्षते । 'क्षीणदोषोऽनृतं वाक्यं न ब्रूयाद्- हेत्वसम्भवात्' इति 8 तदुपदेशः सत्य एवेति ।